Main Page: Difference between revisions
imported>Gagan mNo edit summary |
imported>Gagan mNo edit summary |
||
| Line 532: | Line 532: | ||
तदुपलब्धिरितरेतरद्रव्यगुणवैधर्म्यात् 3/1/66 | तदुपलब्धिरितरेतरद्रव्यगुणवैधर्म्यात् 3/1/66 | ||
कर्माकाशसाधर्म्यात् संशयः 3/2/1 | |||
विषयप्रत्यभिज्ञानात् 3/2/2 | |||
साध्यसमत्वादहेतुः 3/2/3 | |||
न युगपदग्रहणात् 3/2/4 | |||
अप्रत्यभिज्ञाने च विनाशप्रसङ्गः 3/2/5 | |||
क्रमवृत्तित्वादयुगपदग्रहणम् 3/2/6 | |||
अप्रत्यभिज्ञानश्च विषयान्तरव्यासङ्गात् 3/2/7 | |||
नः गत्यभावात् 3/2/8 | |||
स्फटिकान्यत्वाभिमानवत्तदन्यत्वाभिमानः 3/2/9 | |||
स्फटिकेऽप्यपरापरोत्पत्तेः क्षणिकत्वाद्वयक्तीनामहेतुः 3/2/10 | |||
नियमहेत्वभावाद् यथादर्शनमभ्यनुज्ञा 3/2/11 | |||
नः उत्पत्तिविनाशकारणोपलब्धेः 3/2/12 | |||
क्षीरविनाशे कारणानुपलव्धिवद्दध्युत्पत्तिवच्च तदुपपत्तिः 3/2/13 | |||
लिङ्गतो ग्रहणान्ननुपलब्धिः 3/2/14 | |||
न पयसः परिणामगुणान्तरप्रादुर्भावात् 3/2/15 | |||
व्यूहान्तराद् द्रव्यान्तरोत्पत्तिदर्शनं पूर्वद्रव्यनिवृत्तेरनुमानम् 3/2/16 | |||
क्वचिद्विनाशकरणानुपलब्धेः क्वचिच्चोपलब्धेरनेकान्तः 3/2/17 | |||
Revision as of 16:32, 17 January 2025
प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानांतत्त्वज्ञानान्निःश्रेयसाधिगमः 1/1/1
दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः 1/1/2
प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि 1/1/3
इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानपव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् 1/1/4
अथ तत्पूर्वकं त्रिविधमनुमानं पूर्ववच्छेषवत् सामान्यतोदृष्टञ्च 1/1/5
प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानम् 1/1/6
आप्तोपदेशः शब्दः 1/1/7
स द्विविधो दृष्टादृष्टार्थत्वात् 1/1/8
आत्मशरीरेन्द्रियार्थबुद्धिमनः प्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम् 1/1/9
इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम् 1/1/10
चेष्टेन्द्रियार्थाश्रयः शरीरम् 1/1/11
घ्राणरसनचक्षुस्त्वक् श्रोत्राणीन्द्रियाणि भूतेभ्यः 1/1/12
पृथ्व्यापस्तेजो वायुराकाशमिति भूतानि 1/1/13
गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदर्थाः 1/1/14
बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम् 1/1/15
युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् 1/1/16
प्रवृत्तिर्वाग्बुद्धिशरीराम्भः 1/1/17
प्रवर्तनालक्षणा दोषाः 1/1/18
पुनरुत्पत्तिः प्रेत्यभावः 1/1/19
प्रवृत्तिदोषजनितोऽर्थः फलम् 1/1/20
बाधनालक्षणंदुःखम् 1/1/21
तदत्यन्तविमोक्षोऽपवर्गः 1/1/22
समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः 1/1/23
यमर्थमधिकृत्य प्रवर्तते तत् प्रयोजनम् 1/1/24
लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः 1/1/25
तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः 1/1/26
स चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात् 1/1/27
सर्वतन्त्राविरुद्धस्तन्त्रेऽधिकृतोऽर्थः सर्वतन्त्रसिद्धान्तः 1/1/28
समानतन्त्रसिद्धःपरतन्त्रसिद्धःप्रतितन्त्रसिद्धान्तः 1/1/29
यत्सिद्धावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः 1/1/30
अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षणमभ्युपगमसिद्धान्तः 1/1/31
प्रतिज्ञाहेतुदाहरणोपनयनिगमनान्यवयवाः 1/1/32
साध्यनिर्देशः प्रतिज्ञा 1/1/33
उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः 1/1/34
तथा वैधर्म्यात् 1/1/35
साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्त उदाहरणम् 1/1/36
तद्विपर्ययाद्वा विपरीतम् 1/1/37
उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा साध्यस्योपनयः 1/1/38
हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम् 1/1/39
अविज्ञाततत्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः मूहस्तर्कः 1/1/40
विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः 1/1/41
प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोवपन्नः पक्षप्रतिपक्षपरिग्रहो वादः1/2/1
यथोक्तोपपन्नश्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः 1/2/2
स प्रतिपक्षस्थापनाहीनो वितण्डा 1/2/3
सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीता हेत्वाभासाः 1/2/4
अनैकान्तिकः सव्यभिचारः 1/2/5
सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः 1/2/6
यस्मात् प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः 1/2/7
साध्याविशिष्टः साध्यत्वात्साध्यसमः 1/2/8
कालात्ययापदिष्टः कालातीतः 1/2/9
वचनविघातोऽर्थविकल्पोपपत्त्या छलम् 1/2/10
तत् त्रिविधं वाक्छलं सामान्यच्छलमुपचारच्छलञ्चेति 1/2/11
अविशेषाभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम् 1/2/12
सम्भवतोऽर्थस्यातिसामान्ययोगादसम्भूतार्थकल्पना सामान्यछलम् 1/2/13
धर्मविकल्पनिर्देशेऽर्थसद्भावप्रतिषेध उपचारच्छलम् 1/2/14
वाक्छलमेवोपचारच्छलं तदविशेषात् 1/2/15
न तदर्थान्तरभावात् 1/2/16
अविशेषे वा किञ्चित्साधर्म्यादेकच्छलप्रसङ्गः 1/2/17
साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः 1/2/18
विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् 1/2/19
तद्विकल्पाज्जातिनिग्रहस्थानबहुत्वम् 1/2/20
|| अथ द्वितीयाध्याये, प्रथमाह्निकम् ||
समानानेकधर्माध्यवसायादन्यतरधर्माध्यवसायाद्वा न संशयः 2/1/1
विप्रतिपत्त्यव्यवस्थाध्यवसायाच्च 2/1/2
विप्रतिपत्तौ च सम्प्रतिपत्तेः 2/1/3
अव्यवस्थात्मनि व्यवस्थितत्वाच्चव्यवस्थायाः 2/1/4
तथाऽत्यन्तसंशयस्तद्धर्मसातत्योपपत्तेः 2/1/5
यथोक्ताध्यवसायादेव तद्विशेषापेक्षात् संशये नासंशयो नात्यन्तसंशयो वा 2/1/6
यत्र संशयस्तत्रैवमुत्तरोत्तरप्रसङ्गः 2/1/7
प्रत्यक्षादीनामप्रामाण्यं त्रैकाल्यासिद्धेः 2/1/8
पूर्वहि प्रमाणसिद्धौ नेन्द्रियार्थसन्निकर्षात्प्रत्यक्षोत्पत्तिः 2/1/9
पश्चात् सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः 2/1/10
युगपत्सिद्धौ प्रत्यर्थनियतत्वात् क्रमवृत्तित्वाभावो बुद्धीनाम् 2/1/11
त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः 2/1/12
सर्वप्रमाणप्रतिषेधाच्च प्रतिषेधानुपपत्तिः 2/1/13
तत्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः 2/1/14
त्रैकाल्याप्रतिषेधश्च शब्दादातोद्यसिद्धिवत्तत्सिद्धेः 2/1/15
प्रमेया च तुला प्रामाण्यवत् 2/1/16
प्रमाणतः सिद्धेः प्रमाणानां प्रमाणान्तरसिद्धिप्रसङ्गः 2/1/17
तद्विनिवृत्तेर्वा प्रमाणसिद्धिवत् प्रमेयसिद् 2/1/18
न प्रदीपप्रकाशवत् तत्सिद्धेः 2/1/19
क्वचिन्निवृत्तिदर्शनादनिवृत्तिदर्शनाच्च क्वचिदनेकान्तः 2/1/20
प्रत्यक्षलक्षणानुपपत्तिरसमग्रवचनात् 2/1/21
नात्ममनसोः सन्त्रिकर्षाभावे प्रत्यक्षोत्पत्तिः 2/1/22
दिग्देशकालाकाशेष्वप्येवं प्रसङ्ग 2/1/23
ज्ञानलिङ्गत्वादात्मनो नानवरोधः 2/1/24
तदयौगपद्यलिङ्गत्वाच्च न मनसः 2/1/25
प्रत्यक्षनिमित्तत्वाच्चेन्द्रियार्थयोः सन्त्रिकर्षस्य स्वशब्देन वचनम् 2/1/26
सुप्तव्यासक्तमनसां चेन्द्रियार्थयोः सन्निकर्षनिमित्तत्वात् 2/1/27
तैश्चापदेशो ज्ञानविशेषाणाम् 2/1/28
व्याहतत्वादहेतुः 2/1/29
नार्थविशेषप्राबल्यात् 2/1/30
प्रत्यक्षमनुमानमेकदेशग्रहणादुपलब्धेः 2/1/31
न प्रत्यक्षेण यावत्तावदप्युपलम्भात् 2/1/32
न चैकदेशोपलब्धिरवयविसद्भावात् 2/1/33
साध्यत्वादवयविनि सन्देहः 2/1/34
सर्वाग्रहणमवयव्यसिद्धेः 2/1/35
धारणाकर्षणोपपत्तेश्च 2/1/36
सेनावनवत् ग्रहणामिति चेन्नातीन्द्रियत्वादणूनाम् 2/1/37
रोधोपघातसादृश्येभ्यो व्यभिचारादनुमानमप्रमाणम् 2/1/38
नैकदेशत्राससादृश्येभ्याऽर्थान्तरभावात् 2/1/39
वर्त्तमानाभावः पततः पतितपतितव्यकालोपपत्तेः 2/1/40
तयोरप्यभावो वर्तमानाभावे तदपेक्षत्वात् 2/1/41
नातीतानागतयोरितरेतरापेक्षासिद्धिः 2/1/42
वर्तमानाभावे सर्वाग्रहणम् प्रत्यक्षानुपपत्तेः 2/1/43
कृतताकर्तव्यतोपपत्तेस्तूभयथा ग्रहणम् 2/1/44
अत्यन्तप्रायैकदेशसाधर्म्यादुपमानासिद्धिः 2/1/45
प्रसिद्धसाधर्म्यादुपमानसिद्धेर्यथोक्तदोषानुपपत्तिः 2/1/46
प्रत्यक्षेणाप्रत्यक्षसिद्धेः 2/1/47
नाप्रत्यक्षे गवये प्रमाणार्थमुपमानस्य पश्यामः 2/1/48
तथेत्युपसंहारादुपमानसिद्धेर्नाविशेषः 2/1/49
शब्दोऽनुमानमर्थस्यानुपलब्धेरनुमेयत्वात् 2/1/50
उपलब्धेरद्विप्रवृत्तित्वात् ? 2/1/51
सम्बन्धाच्च ? 2/1/51
आप्तोपदेशसामर्थ्याच्छब्दादर्थसम्प्रत्ययः 2/1/52
पूरणप्रदाहपाटनानुपलब्धेश्च सम्बन्धाभावः 2/1/53
शब्दार्थव्यवस्थानादप्रतिषेधः? 2/1/54
न सामयिकत्वाच्छब्दार्थसम्प्रत्ययस्य 2/1/55
जातिविशेषे चानियमात् 2/1/56
तदप्रमाण्यमनृतव्याघातपुनरुक्तदोषेभ्यः 2/1/57
न कर्मकर्तृसाधनवैगुण्यात् 2/1/58
अभ्युपेत्य कालभेदे दोषवचनात् 2/1/59
अनुवादोपपत्तेश्च 2/1/60
वाक्यविभागस्य चार्थग्रहणात् 2/1/61
विध्यर्थवादानुवादवचनविनियोगात् 2/1/62
विधिर्विधायकः 2/1/63
स्तुतिर्निन्दा परकृतिः पुराकल्प इत्यर्थवादः 2/1/64
विधिविहितस्यानुवचनमनुवादः 2/1/65
नानुवादपुनरुक्तयोर्विशेषः शब्दाभ्यासोपपत्तेः 2/1/66
शीघ्रतरगमनोपदेशवदभ्यासान्नाविशेषः 2/1/67
मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात् 2/1/68
|| अथ द्वितीयाध्याये द्वितीयमाह्निकम् ||
न चतुष्ट्वमैतिह्यार्थापत्तिसम्भवाभावप्रामाण्यात् 2/2/1
शब्द ऐतिह्यानर्थान्तरभावादनुमानेऽर्थापत्तिसम्भवाभावानर्थान्तरभावाच्चाप्रतिषेधः 2/2/2
अर्थापत्तिरप्रमाणमनैकान्तिकत्वात् 2/2/3
अनर्थापत्तावर्थापत्त्यभिमानात् 2/2/4
प्रतिषेधाप्रामाण्यञ्चानैकान्तिकत्वात् 2/2/4
तत्प्रामाण्ये वा नार्थापत्त्यप्रामाण्यम् 2/2/5
नाभावप्रामाण्यं प्रमेयासिद्धेः 2/2/6
लक्षितेष्वलक्षणलक्षितत्वादलक्षितानां तत्प्रमेयसिद्धिः 2/2/7
असत्यर्थे नाभाव इति चेत्र, अन्यलक्षणोपपत्तेः 2/2/8
तत्सिद्धेरलक्षितेष्वहेतुः 2/2/90
नः लक्षणावस्थितापेक्षासिद्धेः 2/2/11
प्रागुत्पत्तेरभावोपपत्तेश्च 2/2/12
आदिमत्त्वादैन्द्रियकत्वात् कृतकवदुपचाराच्च 2/2/13
नः घटाभावसामान्यनित्यत्वात् नित्येप्वप्यनित्यवदुपचाराच्च 2/2/14
तत्त्वभाक्तयोर्नानात्वविभागादव्यभिचारः 2/2/15
सन्तानानुमानविशेषणात् 2/2/16
कारणद्रव्यस्य प्रदेशशब्देनाभिधानात् 2/2/17
प्रागुच्चारणादनुपलब्धेरावरणाद्यनुपलब्धेश्च 2/2/18
तदनुपलब्धेरनुपलम्भादावरणोपत्तिः 2/2/19
अनुपलम्भादप्यनुपलब्धिसद्भाववन्नावरणानुपपत्तिरनुपलम्भात् 2/2/20
अनुपलम्भात्मकत्वादनुलब्धेरहेतुः 2/2/21
अस्पर्शत्वात् 2/2/22
न, कर्मानित्यत्वात् 2/2/23
न, अणुनित्यत्वात् 2/2/24
सम्प्रदानात् 2/2/25
तदन्तरालानुपलब्धेरहेतुः 2/2/26
अध्यापनादप्रतिषेधः 2/2/27
उभयोः पक्षयोरन्यतरस्याध्यापनादप्रतिषेधः 2/2/28
अभ्यासात् 2/2/29
नान्यत्वेऽप्यभ्यासस्योपचारात् 2/2/30
अन्यदन्यस्मादनन्यत्वादनन्यदित्यन्यताऽभावः 2/2/31
तदभावे नास्त्यनन्यता, तयोरितरेतरापेक्षसिद्धेः 2/2/32
विनाशकारणानुपलब्धेः 2/2/33
अश्रवणकारणानुपलब्धेः सततश्रवणप्रसङ्गः 2/2/34
उपलभ्यमाने चानुपलब्धेरसत्त्वादनपदेशः 2/2/35
पाणिनिमित्तप्रश्लेषाच्छब्दाभावे नानुपलब्धिः 2/2/36
विनाशकारणानुपलब्धेश्चावस्थाने तन्नित्यत्वप्रसङ्गः 2/2/37
अस्पर्शत्वादप्रतिषेधः 2/2/38
विभक्तयन्तरोपपत्तेश्च समासे 2/2/39
विकारादेशोपदेशात् संशयः 2/2/40
प्रकृतिविवृद्धौ विकारविवृद्धेः 2/2/41
न्यूनसमाधिकोपलब्धेर्विकाराणामहेतुः 2/2/42
द्विविधस्यापि हेतोरभावादसाधनं दृष्टान्तः 2/2/43
नः अतुल्यप्रकृतीनां विकारविकल्पात् 2/2/44
द्रव्यविकारवैषम्यवद्वर्णविकारविकल्पः 2/2/45
न; विकारधर्मानुपपत्तेः 2/2/46
विकारप्राप्तानामपुनरापत्तेः 2/2/47
सुवर्णादीनां पुनरापत्तेरहेतुः 2/2/48
न; तद्विकाराणां सुवर्णभावाव्यतिरेकात् 2/2/49
नित्यत्वेऽविकारादनित्यत्वे चानवस्थानात् 2/2/50
नित्यानामतीन्द्रियत्वात् तद्धर्मविकल्पाच्च वर्णविकाराणामप्रतिषेधः 2/2/51
अनवस्थायित्वे च वर्णोपलब्धिवत्तद्विकारोपपत्तिः 2/2/52
विकारधर्मित्वे नित्यत्वाभावात् कालान्तरे विकारोपपत्तेश्चाप्रतिषेधः 2/2/53
प्रकृत्यनियमाद् 2/2/54
अनियमे नियमान्नानियमः 2/2/55
नियमानियमविरोधादनियमे नियमाच्चाप्रतिषेधः 2/2/56
गुणान्तरापत्त्युपमर्दह्रासवृद्धिलेशश्लेषेभ्यस्तु विकारोपपत्तेर्वर्णविकारः 2/2/57
ते विभक्त्यन्ताः पदम् 2/2/58
व्यक्त्याकृतिजातिसन्निधावुपचारात् संशयः 2/2/59
या शब्दसमूहत्यागपरिग्रहसङ्ख्यावृद्ध्युपचयवर्णसमासानुबन्धानां व्यक्तावुपचाराद् व्यक्तिः 2/2/60
न; तदनवस्थानात् 2/2/61
सहचरणसथानतादर्थ्यवृत्तमानधारणसामीप्ययोगसाधनाधिपत्येभ्यो ब्राह्मणमञ्चकटराजसक्तुचन्दनगङ्गाशाटकान्नपुरुषेप्वतद्भावेऽपि तदुपचारः 2/2/62
आकृतिस्तपदपेक्षत्वात् सत्त्वव्यस्थानसिद्धेः ? 2/2/63
व्यक्त्याकृतियुक्तेऽप्यप्रसङ्गात् प्रोक्षणादीनां मृद्गवके जातिः ? 2/2/63
न, आकृतिव्यक्तयपेक्षत्वाज्जात्यभिव्यक्तेः 2/2/64
व्यक्त्त्याकृतिजातयस्तु पदार्थः 2/2/65
व्यक्तिगुणविशेषाश्रयो मूर्तिः 2/2/66
आकृतिर्जातिलिङ्गाख्या 2/2/67
समानप्रसवात्मिका जातिः 2/2/68
||अथ तृतीयोऽध्यायः||
दर्शनस्पर्शनाभ्यामेकार्थग्रहणात् 3/1/1
विषयव्यवस्थानात् 3/1/2
तद्व्यवस्थानादेवात्मसद्भावादप्रतिषेधः 3/1/3
शरीरदाहे पातकाभावात् 3/1/4
तदभावः, सात्मकप्रदाहेऽपि तन्नित्यत्वात् 3/1/5
न; कार्याश्रयकर्तृवधात् 3/1/6
सव्यदृष्टस्येतरेण प्रत्यभिज्ञानात् 3/1/7
नैकस्मिन्नासास्थिव्यवहिते द्वित्वाभिमानात् 3/1/8
एकविनाशे द्वितीयाविनाशन्नैकत्वम् 3/1/9
अवयवनाशेऽप्यवयव्युपलब्धेरहेतुः 3/1/10
दृष्टान्तविरोधादप्रतिषेधः 3/1/11
इन्द्रियान्तरविकारात् 3/1/12
नः स्मृतेः स्मर्त्तव्यविषयत्वात् 3/1/13
तदात्मगुणसद्भावादप्रतिषेधः 3/1/14
न; आत्मप्रतिपत्तिहेतूनां मनसि सम्भवात् 3/1/15
ज्ञातुर्ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम् 3/1/16
नियमञ्च निरनुमानः3/1/17
पूर्वाभ्यस्तरस्मृत्यनुबन्धात् जातस्य हर्षभयशोकसम्प्रतिपत्तेः 3/1/18
पद्मादिषु प्रबोधसम्मीलनविकारवत्तद्विकारः 3/1/19
न; उष्णशीतवर्षाकालनिमित्तत्वात् पञ्चात्मकविकाराणाम् 3/1/20
प्रेत्याहाराभ्यासकृतात् स्तन्याभिलाषात् 3/1/21
अयसोऽस्कान्ताभिगमनवत्तदुपसर्पणम् 3/1/22
न; अन्यत्र प्रवृत्त्यभावात् 3/1/23
वीतरागजन्मादर्शनात् 3/1/24
सगुणद्रव्योत्पत्तिवत् तदुत्पत्तिः 3/1/25
न; सङ्कल्पनिमित्तत्वाद्रागादीनाम् 3/1/26
पार्थिवं गुणान्तरोपलब्धेः 3/1/27
पार्थिवाप्यतैजसं तदुणोपलब्धेः 3/1/28
निः श्वासोच्छासोपलब्धेश्चातुभौतिकम् 3/1/29
गन्धक्लेदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकम् 3/1/30
श्रुतिप्रामाण्याच्च 3/1/31
कृष्णसारे सत्युपलम्भाद्व्यतिरिच्य चोपलम्भात् संशयः 3/1/32
महदणुग्रहणात् 3/1/33
रश्म्यर्थसन्निकर्षविशेषात् तद्ग्रहणम् 3/1/34
तदनुपलब्धेरहेतुः 3/1/35
नानुमीयमानस्य प्रत्यक्षतोऽनुपलब्धिरभावहेतुः 3/1/36
द्रव्यगुणधर्मभेदाच्चोपलब्धिनियमः 3/1/37
अनेकद्रव्यसमवायाद्रूपविशेषाच्च रूपोपलब्धिः 3/1/38
कर्मकारितश्चेन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः 3/1/39
माध्यन्दिनोल्काप्रकाशानुपलब्धिवत्तदनुपलब्धिः 3/1/40
न रात्रावप्यनुपलब्धेः 3/1/41
आदर्शोदकयोः प्रसादस्वाभाव्याद्रूपोपलब्धिवत्तदुपलब्धिः 3/1/42
दृष्टानुमितानां नियोगप्रतिषेधानुपपत्तिः 3/1/43
स्थानान्यत्वे नानात्वादवयविनानास्थानत्वाच्च संशयः 3/1/44
त्वगव्यतिरेकात् 3/1/45
न युगपदर्थानुपलब्धेः 3/1/46
विप्रतिषेधाच्च न त्वगेका 3/1/47
इन्द्रियार्थपञ्चत्वात् 3/1/48
न तदर्थबहुत्वात् 3/1/49
गन्धत्वाद्यव्यतिरेकाद् गन्धादीनामप्रतिषेधः 3/1/50
विषयत्वाव्यतिरेकादेकत्वम् 3/1/51
न; बुद्धिलक्षणाधिष्ठानगत्याकृतिजातिपञ्चत्वेभ्यः 3/1/52
भूतगुणविशेषोपलब्धेस्तादात्म्यम् 3/1/53
गन्धरसरूपस्पर्शशब्दानां स्पर्शपर्यन्ताः पृथिव्याः 3/1/54
अप्तेजोवायूनां पूर्वपूर्वम पोह्याकाशस्योत्तरः 3/1/55
न सर्वगुणानुपलब्धेः 3/1/56
एकैकश्येनोत्तरोत्तरगुणसद्भावादुत्तराणां तदनुपलब्धिः 3/1/57
विष्टं ह्यपरं परेण 3/1/58
नः पार्थिवाप्ययोः प्रत्यक्षत्वात् 3/1/59
पूर्वपूर्वगुणोत्कर्षात् तत्तत्प्रधानम् 3/1/60
तद्व्यवस्थानं तु भूयस्त्वात् 3/1/61
सगुणानामिन्द्रियभावात् 3/1/62
तेनैव तस्याग्रहणाच्च 3/1/64
न शब्दगुणोपलब्धेः 3/1/65
तदुपलब्धिरितरेतरद्रव्यगुणवैधर्म्यात् 3/1/66
कर्माकाशसाधर्म्यात् संशयः 3/2/1
विषयप्रत्यभिज्ञानात् 3/2/2
साध्यसमत्वादहेतुः 3/2/3
न युगपदग्रहणात् 3/2/4
अप्रत्यभिज्ञाने च विनाशप्रसङ्गः 3/2/5
क्रमवृत्तित्वादयुगपदग्रहणम् 3/2/6
अप्रत्यभिज्ञानश्च विषयान्तरव्यासङ्गात् 3/2/7
नः गत्यभावात् 3/2/8
स्फटिकान्यत्वाभिमानवत्तदन्यत्वाभिमानः 3/2/9
स्फटिकेऽप्यपरापरोत्पत्तेः क्षणिकत्वाद्वयक्तीनामहेतुः 3/2/10
नियमहेत्वभावाद् यथादर्शनमभ्यनुज्ञा 3/2/11
नः उत्पत्तिविनाशकारणोपलब्धेः 3/2/12
क्षीरविनाशे कारणानुपलव्धिवद्दध्युत्पत्तिवच्च तदुपपत्तिः 3/2/13
लिङ्गतो ग्रहणान्ननुपलब्धिः 3/2/14
न पयसः परिणामगुणान्तरप्रादुर्भावात् 3/2/15
व्यूहान्तराद् द्रव्यान्तरोत्पत्तिदर्शनं पूर्वद्रव्यनिवृत्तेरनुमानम् 3/2/16
क्वचिद्विनाशकरणानुपलब्धेः क्वचिच्चोपलब्धेरनेकान्तः 3/2/17