Main Page: Difference between revisions

From IKS BHU
Jump to navigation Jump to search
imported>Gagan
No edit summary
imported>Gagan
No edit summary
Line 49: Line 49:
लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः [[1/1/25]]
लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः [[1/1/25]]


तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः 1/1/26
तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः [[1/1/26]]


स चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात् [[1/1/27]]         
स चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात् [[1/1/27]]         
[[new page]]
[[new page]]

Revision as of 16:30, 8 January 2025

प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानांतत्त्वज्ञानान्निःश्रेयसाधिगमः 1/1/1

दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः 1/1/2

प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि 1/1/3

इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानपव्यपदेश्यमव्यभिचारि  व्यवसायात्मकं प्रत्यक्षम् 1/1/4

अथ तत्पूर्वकं त्रिविधमनुमानं पूर्ववच्छेषवत् सामान्यतोदृष्टञ्च 1/1/5

प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानम् 1/1/6

आप्तोपदेशः शब्दः 1/1/7

स द्विविधो दृष्टादृष्टार्थत्वात् 1/1/8

आत्मशरीरेन्द्रियार्थबुद्धिमनः प्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम् 1/1/9

इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम् 1/1/10

चेष्टेन्द्रियार्थाश्रयः शरीरम् 1/1/11

घ्राणरसनचक्षुस्त्वक्  श्रोत्राणीन्द्रियाणि भूतेभ्यः 1/1/12

पृथ्व्यापस्तेजो वायुराकाशमिति भूतानि 1/1/13

गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदर्थाः 1/1/14

बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम् 1/1/15

युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् 1/1/16

प्रवृत्तिर्वाग्बुद्धिशरीराम्भः 1/1/17

प्रवर्तनालक्षणा दोषाः 1/1/18

पुनरुत्पत्तिः प्रेत्यभावः 1/1/19

प्रवृत्तिदोषजनितोऽर्थः फलम् 1/1/20

बाधनालक्षणंदुःखम् 1/1/21

तदत्यन्तविमोक्षोऽपवर्गः 1/1/22

समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः 1/1/23

यमर्थमधिकृत्य प्रवर्तते तत् प्रयोजनम् 1/1/24

लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः 1/1/25

तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः 1/1/26

स चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात् 1/1/27 new page