Main Page: Difference between revisions
imported>Gagan आठवें सूत्र की व्याख्या |
imported>Gagan mNo edit summary |
||
| Line 15: | Line 15: | ||
स द्विविधो दृष्टादृष्टार्थत्वात् [[1/1/8]] | स द्विविधो दृष्टादृष्टार्थत्वात् [[1/1/8]] | ||
आत्मशरीरेन्द्रियार्थबुद्धिमनः प्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम् 1/1/9 | आत्मशरीरेन्द्रियार्थबुद्धिमनः प्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम् [[1/1/9]] | ||
इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम् 1/1/10 | इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम् 1/1/10 | ||
Revision as of 17:10, 10 December 2024
प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानांतत्त्वज्ञानान्निःश्रेयसाधिगमः 1/1/1
दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः 1/1/2
प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि 1/1/3
इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानपव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् 1/1/4
अथ तत्पूर्वकं त्रिविधमनुमानं पूर्ववच्छेषवत् सामान्यतोदृष्टञ्च 1/1/5
प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानम् 1/1/6
आप्तोपदेशः शब्दः 1/1/7
स द्विविधो दृष्टादृष्टार्थत्वात् 1/1/8
आत्मशरीरेन्द्रियार्थबुद्धिमनः प्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम् 1/1/9
इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम् 1/1/10
चेष्टेन्द्रियार्थाश्रयः शरीरम् 1/1/11
घ्राणरसनचक्षुस्त्वक् श्रोत्राणीन्द्रियाणि भूतेभ्यः 1/1/12
पृथ्व्यापस्तेजो वायुराकाशमिति भूतानि 1/1/13
गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदर्थाः 1/1/14
बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम् 1/1/15
युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् 1/1/16
प्रवृत्तिर्वाग्बुद्धिशरीराम्भः 1/1/17
प्रवर्तनालक्षणा दोषाः 1/1/18
पुनरुत्पत्तिः प्रेत्यभावः 1/1/19
प्रवृत्तिदोषजनितोऽर्थः फलम् 1/1/20