Sbg 2.41 scsh

From IKS BHU
Revision as of 17:31, 3 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Shankaracharya ।।2.41।।


व्यवसायात्मिका निश्चयस्वभावा एका एव बुद्धिः इतरविपरीतबुद्धिशाखाभेदस्य बाधिका सम्यक्प्रमाणजनितत्वात् इह श्रेयोमार्गे हे कुरुनन्दन । याः पुनः इतरा विपरीतबुद्धयः यासां शाखाभेदप्रचारवशात् अनन्तः अपारः अनुपरतः संसारो नित्यप्रततो विस्तीर्णो भवति प्रमाणजनितविवेकबुद्धिनिमित्तवशाच्च उपरतास्वनन्तभेदबुद्धिषु संसारोऽप्युपरमते ता बुद्धयः बहुशाखाः बह्व्यः शाखाः यासां ताः बहुशाखाः बहुभेदा इत्येतत्। प्रतिशाखाभेदेन हि अनन्ताश्च बुद्धयः । केषाम् अव्यवसायिनां प्रमाणजनितविवेकबुद्धिरहितानामित्यर्थः।।

येषां व्यवसायात्मिका बुद्धिर्नास्ति ते