Sbg 2.41 scsh
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Shankaracharya ।।2.41।।
व्यवसायात्मिका
निश्चयस्वभावा
एका
एव
बुद्धिः
इतरविपरीतबुद्धिशाखाभेदस्य बाधिका सम्यक्प्रमाणजनितत्वात् इह श्रेयोमार्गे हे
कुरुनन्दन
। याः पुनः इतरा विपरीतबुद्धयः यासां शाखाभेदप्रचारवशात् अनन्तः अपारः अनुपरतः संसारो नित्यप्रततो विस्तीर्णो भवति प्रमाणजनितविवेकबुद्धिनिमित्तवशाच्च उपरतास्वनन्तभेदबुद्धिषु संसारोऽप्युपरमते ता बुद्धयः
बहुशाखाः
बह्व्यः शाखाः यासां ताः बहुशाखाः बहुभेदा इत्येतत्। प्रतिशाखाभेदेन
हि अनन्ताश्च बुद्धयः
। केषाम्
अव्यवसायिनां
प्रमाणजनितविवेकबुद्धिरहितानामित्यर्थः।।
येषां व्यवसायात्मिका बुद्धिर्नास्ति ते