प्रासङ्गिकमदृष्टनिष्पाद्यत्वप्रकरणम्

From IKS BHU
Revision as of 17:15, 6 February 2025 by imported>Gagan (Created page with "पूर्वकृतफलानुबन्धात्तदुत्पत्तिः 3/2/58 भूतेभ्यो मूर्त्त्युपादानवत् तदुपादानम् 3/2/59 नः साध्यसमत्वात् 3/2/60 न; उत्पत्तिनिमित्तत्वान्मातापित्रोः 3/2/61 तथाहारस्य 3/2/62 प्राप्तौ चानियमात्...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

पूर्वकृतफलानुबन्धात्तदुत्पत्तिः 3/2/58

भूतेभ्यो मूर्त्त्युपादानवत् तदुपादानम् 3/2/59

नः साध्यसमत्वात् 3/2/60

न; उत्पत्तिनिमित्तत्वान्मातापित्रोः 3/2/61

तथाहारस्य 3/2/62

प्राप्तौ चानियमात् 3/2/63

शरीरोत्पत्तिनिमित्तवत् संयोगात्पत्तिनिमित्तं कर्म 3/2/64

एतेनानियमः प्रयुक्तः 3/2/65

तददृष्टकारितमिति चेत् । पुनस्तत्प्रसङ्गोऽपवर्गे 3/2/66

मनः कर्मनिमित्तात्वाच्च संयोगानुच्छेदः 3/2/67

नित्यत्वप्रसङ्गश्च प्रायेणानुपपत्तेः 3/2/68

अणुश्यामतानित्यत्ववदेतत् स्यात् 3/2/69

नः अकृताभ्यागमप्रसङ्गात् 3/2/70