प्रासङ्गिकमदृष्टनिष्पाद्यत्वप्रकरणम्
Jump to navigation
Jump to search
पूर्वकृतफलानुबन्धात्तदुत्पत्तिः 3/2/58
भूतेभ्यो मूर्त्त्युपादानवत् तदुपादानम् 3/2/59
नः साध्यसमत्वात् 3/2/60
न; उत्पत्तिनिमित्तत्वान्मातापित्रोः 3/2/61
तथाहारस्य 3/2/62
प्राप्तौ चानियमात् 3/2/63
शरीरोत्पत्तिनिमित्तवत् संयोगात्पत्तिनिमित्तं कर्म 3/2/64
एतेनानियमः प्रयुक्तः 3/2/65
तददृष्टकारितमिति चेत् । पुनस्तत्प्रसङ्गोऽपवर्गे 3/2/66
मनः कर्मनिमित्तात्वाच्च संयोगानुच्छेदः 3/2/67
नित्यत्वप्रसङ्गश्च प्रायेणानुपपत्तेः 3/2/68
अणुश्यामतानित्यत्ववदेतत् स्यात् 3/2/69
नः अकृताभ्यागमप्रसङ्गात् 3/2/70