Sbg 18.67 scang

From IKS BHU
Revision as of 15:49, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Abhinavgupta ।।18.67।।इदमिति। अस्य ज्ञानस्य गोप्यमानत्वं सिद्धिदम्? सर्वजनाविषयत्वात्। तपसा तावत् पापग्रन्थौ विशीर्णे कुशलपरिपाकोन्मुखता भवति? इति पूर्वं तपः तपसः श्रद्धा ( S adds जायते after श्रद्धा ) ? सैव भक्तिः। श्रद्धापि उपजाता कदाचित् न प्ररोहति? सौदामिनीव क्षणदृष्टनष्टत्वात् ( N क्षणदृष्टत्वात् )। ततः तत्प्ररोहे श्रोतुमिच्छा भवति। इयदपि च कस्यचिदनीश्वरेऽवस्तुनि शुष्कसांख्यादिज्ञाने भवति। सेश्वरेऽपि वा कस्यचित् फलार्थितया फलमेव प्रधानीकृत्य भगवन्तं च स्वात्मानं तदुपकरणपात्रीकरणेन न्यक्कृत्यं भवेत्। यदुक्तम् -- पुरुषश्च कर्मार्थत्वात् ( JS? III? i? 6 )


कर्माण्यपि फलार्थत्वात् ( JS? III? i? 4 ) इति। एवमुभयथापि भगवति असूयैव अनादर इत्यर्थः।