Sbg 18.67 scang
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Abhinavgupta ।।18.67।।इदमिति। अस्य ज्ञानस्य गोप्यमानत्वं सिद्धिदम्? सर्वजनाविषयत्वात्। तपसा तावत् पापग्रन्थौ विशीर्णे कुशलपरिपाकोन्मुखता भवति? इति पूर्वं तपः तपसः श्रद्धा ( S adds जायते after श्रद्धा ) ? सैव भक्तिः। श्रद्धापि उपजाता कदाचित् न प्ररोहति? सौदामिनीव क्षणदृष्टनष्टत्वात् ( N क्षणदृष्टत्वात् )। ततः तत्प्ररोहे श्रोतुमिच्छा भवति। इयदपि च कस्यचिदनीश्वरेऽवस्तुनि शुष्कसांख्यादिज्ञाने भवति। सेश्वरेऽपि वा कस्यचित् फलार्थितया फलमेव प्रधानीकृत्य भगवन्तं च स्वात्मानं तदुपकरणपात्रीकरणेन न्यक्कृत्यं भवेत्। यदुक्तम् -- पुरुषश्च कर्मार्थत्वात् ( JS? III? i? 6 )
कर्माण्यपि फलार्थत्वात् ( JS? III? i? 4 ) इति। एवमुभयथापि भगवति असूयैव अनादर इत्यर्थः।