Sbg 18.12 scram
Sanskrit Commentary By Sri Ramanuja ।।18.12।। अनिष्टं नरकादिफलम्? इष्टं स्वर्गादि? मिश्रम् अनिष्टसंभिन्नं पुत्रपश्वन्नादि एतत् त्रिविधं कर्मणः फलम् अत्यागिनां कर्तृत्वममताफलत्यागरहितानां प्रेत्य भवति प्रेत्य कर्मानुष्ठानोत्तरकालम् इत्यर्थः। न तु संन्यासिनां क्वचित् न तु कर्तृत्वादिपरित्यागिनां क्वचिद् अपि मोक्षविरोधि फलं भवति।
एतद् उक्तं भवति -- यद्यपि अग्निहोत्रमहायज्ञादीनि नित्यानि एव? तथापि जीवनाधिकारकामाधिकारयोः इव मोक्षाधिकारे च विनियोगपृथक्त्वेन परिह्रियते? मोक्षविनियोगः च -- तमेतं वेदानुवचनेन ब्राह्मणाविविदिषन्ति यज्ञेन दानेन तपसानाशकेन (बृ0 उ
0
4।4।22) इत्यादिभिः इति।तद् एवं क्रियमाणेषु एव कर्मसु कर्तृत्वादिपरित्यागः शास्त्रसिद्धः संन्यासः स एव च त्याग इति उक्तः।इदानीं भगवति पुरुषोत्तमे अन्तर्यामिणि कर्तृत्वानुसंधानेन आत्मनि अकर्तृत्वानुसन्धानप्रकारम् आह। तत एव फलकर्मणोः अपि ममतापरित्यागो भवति इति। परमपुरुषो हि स्वकीयेन जीवात्मना स्वकीयैः च करणकलेवरप्राणैः स्वलीलाप्रयोजनाय कर्माणि आरभते। अतो जीवात्मगतं क्षुन्निवृत्त्यादिकम् अपि फलं तत्साधनभूतं च कर्म परमपुरुषस्य एव --