Sbg 18.12 scram

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Ramanuja ।।18.12।। अनिष्टं नरकादिफलम्? इष्टं स्वर्गादि? मिश्रम् अनिष्टसंभिन्नं पुत्रपश्वन्नादि एतत् त्रिविधं कर्मणः फलम् अत्यागिनां कर्तृत्वममताफलत्यागरहितानां प्रेत्य भवति प्रेत्य कर्मानुष्ठानोत्तरकालम् इत्यर्थः। न तु संन्यासिनां क्वचित् न तु कर्तृत्वादिपरित्यागिनां क्वचिद् अपि मोक्षविरोधि फलं भवति।


एतद् उक्तं भवति -- यद्यपि अग्निहोत्रमहायज्ञादीनि नित्यानि एव? तथापि जीवनाधिकारकामाधिकारयोः इव मोक्षाधिकारे च विनियोगपृथक्त्वेन परिह्रियते? मोक्षविनियोगः च -- तमेतं वेदानुवचनेन ब्राह्मणाविविदिषन्ति यज्ञेन दानेन तपसानाशकेन (बृ0 उ 0 4।4।22) इत्यादिभिः इति।तद् एवं क्रियमाणेषु एव कर्मसु कर्तृत्वादिपरित्यागः शास्त्रसिद्धः संन्यासः स एव च त्याग इति उक्तः।इदानीं भगवति पुरुषोत्तमे अन्तर्यामिणि कर्तृत्वानुसंधानेन आत्मनि अकर्तृत्वानुसन्धानप्रकारम् आह। तत एव फलकर्मणोः अपि ममतापरित्यागो भवति इति। परमपुरुषो हि स्वकीयेन जीवात्मना स्वकीयैः च करणकलेवरप्राणैः स्वलीलाप्रयोजनाय कर्माणि आरभते। अतो जीवात्मगतं क्षुन्निवृत्त्यादिकम् अपि फलं तत्साधनभूतं च कर्म परमपुरुषस्य एव --