Sbg 16.1 scsri
Sanskrit Commentary By Sri Sridhara Swami ।।16.1।।आसुरीं संपदं त्यक्त्वा दैवीमेवाश्रिता नराः। मुच्यन्त इति निर्णेतुं तद्विवेकोऽथ षोडशे।।1।।
पूर्वाध्यायान्तेएतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत इत्युक्तम् तत्र क एतत्तत्त्वं बुध्यते को वा न बुध्यत इत्यपेक्षायां तत्त्वज्ञानेऽधिकारिणोऽनधिकारिणश्च विवेकार्थं षोडशाध्यायारम्भः। निरूपिते हि कार्यार्थेऽधिकारिजिज्ञासा भवति। तदुक्तं भट्टैःभारी यो येन वोढव्यः स प्रागान्दोलितो यदा। तदा कस्तस्य वोढेति शक्यं कर्तुं निरूपणम् इति। तत्राधिकारिविशेषणभूतां दैवीं संपदमाह -- श्रीभगवान्
--
अभयमिति त्रिभिः।
अभयं भयाभावः? सत्त्वस्य चित्तस्य संशुद्धिः सुप्रसन्नता? ज्ञानयोगे आत्मज्ञानोपाये व्यवस्थितिः परिनिष्ठा? दानं स्वभोज्यस्यान्नादेर्यथोचितं संविभागः? दमो बाह्येन्द्रियसंयमः? यज्ञो यथाधिकारं दर्शपूर्णमासादिः? स्वाध्यायो ब्रह्मयज्ञादिर्जपयज्ञः? तप उत्तराध्याये वक्ष्यमाणं शारीरादि? आर्जवमवक्रता।