Sbg 16.1 scsri

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Sridhara Swami ।।16.1।।आसुरीं संपदं त्यक्त्वा दैवीमेवाश्रिता नराः। मुच्यन्त इति निर्णेतुं तद्विवेकोऽथ षोडशे।।1।।


पूर्वाध्यायान्तेएतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत इत्युक्तम् तत्र क एतत्तत्त्वं बुध्यते को वा न बुध्यत इत्यपेक्षायां तत्त्वज्ञानेऽधिकारिणोऽनधिकारिणश्च विवेकार्थं षोडशाध्यायारम्भः। निरूपिते हि कार्यार्थेऽधिकारिजिज्ञासा भवति। तदुक्तं भट्टैःभारी यो येन वोढव्यः स प्रागान्दोलितो यदा। तदा कस्तस्य वोढेति शक्यं कर्तुं निरूपणम् इति। तत्राधिकारिविशेषणभूतां दैवीं संपदमाह -- श्रीभगवान् -- अभयमिति त्रिभिः। अभयं भयाभावः? सत्त्वस्य चित्तस्य संशुद्धिः सुप्रसन्नता? ज्ञानयोगे आत्मज्ञानोपाये व्यवस्थितिः परिनिष्ठा? दानं स्वभोज्यस्यान्नादेर्यथोचितं संविभागः? दमो बाह्येन्द्रियसंयमः? यज्ञो यथाधिकारं दर्शपूर्णमासादिः? स्वाध्यायो ब्रह्मयज्ञादिर्जपयज्ञः? तप उत्तराध्याये वक्ष्यमाणं शारीरादि? आर्जवमवक्रता।