प्रमेयलक्षणप्रकरणम्

From IKS BHU
Revision as of 16:29, 30 January 2025 by imported>Gagan (Created page with "आत्मशरीरेन्द्रियार्थबुद्धिमनः प्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम् 1/1/9 इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम् 1/1/10 चेष्टेन्द्रियार्थाश्रयः शरी...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

आत्मशरीरेन्द्रियार्थबुद्धिमनः प्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम् 1/1/9

इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम् 1/1/10

चेष्टेन्द्रियार्थाश्रयः शरीरम् 1/1/11

घ्राणरसनचक्षुस्त्वक्  श्रोत्राणीन्द्रियाणि भूतेभ्यः 1/1/12

पृथ्व्यापस्तेजो वायुराकाशमिति भूतानि 1/1/13

गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदर्थाः 1/1/14

बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम् 1/1/15

युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् 1/1/16

प्रवृत्तिर्वाग्बुद्धिशरीराम्भः 1/1/17

प्रवर्तनालक्षणा दोषाः 1/1/18

पुनरुत्पत्तिः प्रेत्यभावः 1/1/19

प्रवृत्तिदोषजनितोऽर्थः फलम् 1/1/20

बाधनालक्षणंदुःखम् 1/1/21

तदत्यन्तविमोक्षोऽपवर्गः 1/1/22