Main Page: Difference between revisions

From IKS BHU
Jump to navigation Jump to search
imported>Gagan
mNo edit summary
imported>Gagan
m Replaced content with "Sutras"
Line 1: Line 1:
[[Sutras]]।।अथ प्रथमाध्याये, प्रथमाह्निकम्।।
[[Sutras]]
 
प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानांतत्त्वज्ञानान्निःश्रेयसाधिगमः [[1/1/1]]           
 
दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः [[1/1/2]]
 
प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि  [[1/1/3]]
 
इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानपव्यपदेश्यमव्यभिचारि  व्यवसायात्मकं प्रत्यक्षम् [[1/1/4]]
 
अथ तत्पूर्वकं त्रिविधमनुमानं पूर्ववच्छेषवत् सामान्यतोदृष्टञ्च  [[1/1/5]]
 
प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानम् [[1/1/6]]
 
आप्तोपदेशः शब्दः [[1/1/7]]
 
स द्विविधो दृष्टादृष्टार्थत्वात्  [[1/1/8]]
 
आत्मशरीरेन्द्रियार्थबुद्धिमनः प्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम् [[1/1/9]]
 
इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम् [[1/1/10]] 
 
चेष्टेन्द्रियार्थाश्रयः शरीरम् [[1/1/11]]
 
घ्राणरसनचक्षुस्त्वक्  श्रोत्राणीन्द्रियाणि भूतेभ्यः [[1/1/12]]
 
पृथ्व्यापस्तेजो वायुराकाशमिति भूतानि [[1/1/13]]
 
गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदर्थाः [[1/1/14]]
 
बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम् [[1/1/15]]
 
युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् [[1/1/16]]
 
प्रवृत्तिर्वाग्बुद्धिशरीराम्भः [[1/1/17]]
 
प्रवर्तनालक्षणा दोषाः [[1/1/18]]
 
पुनरुत्पत्तिः प्रेत्यभावः [[1/1/19]]
 
प्रवृत्तिदोषजनितोऽर्थः फलम् [[1/1/20]]
 
बाधनालक्षणंदुःखम् [[1/1/21]]
 
तदत्यन्तविमोक्षोऽपवर्गः [[1/1/22]]
 
समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः [[1/1/23]]
 
यमर्थमधिकृत्य प्रवर्तते तत् प्रयोजनम् [[1/1/24]]
 
लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः [[1/1/25]]
 
तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः [[1/1/26]]
 
स चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात् [[1/1/27]]   
 
सर्वतन्त्राविरुद्धस्तन्त्रेऽधिकृतोऽर्थः सर्वतन्त्रसिद्धान्तः [[1/1/28]]
 
समानतन्त्रसिद्धःपरतन्त्रसिद्धःप्रतितन्त्रसिद्धान्तः [[1/1/29]]
 
यत्सिद्धावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः [[1/1/30]]
 
अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षणमभ्युपगमसिद्धान्तः [[1/1/31]]
 
प्रतिज्ञाहेतुदाहरणोपनयनिगमनान्यवयवाः [[1/1/32]]
 
साध्यनिर्देशः प्रतिज्ञा [[1/1/33]]
 
उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः [[1/1/34]]
 
तथा वैधर्म्यात् [[1/1/35]]
 
साध्यसाधर्म्यात्तद्धर्मभावी  दृष्टान्त उदाहरणम् [[1/1/36]]
 
तद्विपर्ययाद्वा विपरीतम् [[1/1/37]]
 
उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा साध्यस्योपनयः [[1/1/38]]
 
हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम्  [[1/1/39]]
 
अविज्ञाततत्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः मूहस्तर्कः [[1/1/40]]
 
विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः [[1/1/41]]
 
।।अथ प्रथमाध्याये, द्वितीयमाह्निकम् ।।
 
प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोवपन्नः पक्षप्रतिपक्षपरिग्रहो वादः[[1/2/1]]
 
यथोक्तोपपन्नश्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः [[1/2/2]]
 
स प्रतिपक्षस्थापनाहीनो वितण्डा [[1/2/3]]
 
सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीता हेत्वाभासाः [[1/2/4]]
 
अनैकान्तिकः सव्यभिचारः [[1/2/5]]
 
सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः [[1/2/6]]
 
यस्मात् प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः [[1/2/7]]
 
  साध्याविशिष्टः साध्यत्वात्साध्यसमः [[1/2/8]]
 
कालात्ययापदिष्टः कालातीतः [[1/2/9]]
 
वचनविघातोऽर्थविकल्पोपपत्त्या छलम् [[1/2/10]]
 
  तत् त्रिविधं वाक्छलं सामान्यच्छलमुपचारच्छलञ्चेति 1/2/11
 
अविशेषाभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम् 1/2/12
 
सम्भवतोऽर्थस्यातिसामान्ययोगादसम्भूतार्थकल्पना सामान्यछलम् 1/2/13
 
धर्मविकल्पनिर्देशेऽर्थसद्भावप्रतिषेध उपचारच्छलम् 1/2/14
 
वाक्छलमेवोपचारच्छलं तदविशेषात् 1/2/15
 
न तदर्थान्तरभावात् 1/2/16
 
अविशेषे वा किञ्चित्साधर्म्यादेकच्छलप्रसङ्गः 1/2/17
 
साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः 1/2/18
 
विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् 1/2/19
 
तद्विकल्पाज्जातिनिग्रहस्थानबहुत्वम् 1/2/20
 
|| अथ द्वितीयाध्याये, प्रथमाह्निकम् ||
 
समानानेकधर्माध्यवसायादन्यतरधर्माध्यवसायाद्वा न संशयः 2/1/1
 
विप्रतिपत्त्यव्यवस्थाध्यवसायाच्च 2/1/2
 
विप्रतिपत्तौ च सम्प्रतिपत्तेः 2/1/3
 
अव्यवस्थात्मनि व्यवस्थितत्वाच्चव्यवस्थायाः 2/1/4
 
तथाऽत्यन्तसंशयस्तद्धर्मसातत्योपपत्तेः 2/1/5
 
यथोक्ताध्यवसायादेव तद्विशेषापेक्षात् संशये नासंशयो नात्यन्तसंशयो वा 2/1/6
 
यत्र संशयस्तत्रैवमुत्तरोत्तरप्रसङ्गः 2/1/7
 
प्रत्यक्षादीनामप्रामाण्यं त्रैकाल्यासिद्धेः 2/1/8
 
पूर्वहि प्रमाणसिद्धौ नेन्द्रियार्थसन्निकर्षात्प्रत्यक्षोत्पत्तिः 2/1/9
 
पश्चात् सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः 2/1/10
 
युगपत्सिद्धौ प्रत्यर्थनियतत्वात् क्रमवृत्तित्वाभावो बुद्धीनाम् 2/1/11
 
त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः 2/1/12
 
सर्वप्रमाणप्रतिषेधाच्च प्रतिषेधानुपपत्तिः 2/1/13
 
तत्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः 2/1/14
 
त्रैकाल्याप्रतिषेधश्च शब्दादातोद्यसिद्धिवत्तत्सिद्धेः 2/1/15
 
प्रमेया च तुला प्रामाण्यवत् 2/1/16
 
प्रमाणतः सिद्धेः प्रमाणानां प्रमाणान्तरसिद्धिप्रसङ्गः 2/1/17
 
तद्विनिवृत्तेर्वा प्रमाणसिद्धिवत् प्रमेयसिद् 2/1/18
 
न प्रदीपप्रकाशवत् तत्सिद्धेः 2/1/19
 
क्वचिन्निवृत्तिदर्शनादनिवृत्तिदर्शनाच्च क्वचिदनेकान्तः 2/1/20
 
प्रत्यक्षलक्षणानुपपत्तिरसमग्रवचनात् 2/1/21
 
नात्ममनसोः सन्त्रिकर्षाभावे प्रत्यक्षोत्पत्तिः 2/1/22
 
दिग्देशकालाकाशेष्वप्येवं प्रसङ्ग 2/1/23
 
ज्ञानलिङ्गत्वादात्मनो नानवरोधः 2/1/24
 
तदयौगपद्यलिङ्गत्वाच्च न मनसः 2/1/25
 
प्रत्यक्षनिमित्तत्वाच्चेन्द्रियार्थयोः सन्त्रिकर्षस्य स्वशब्देन वचनम् 2/1/26
 
सुप्तव्यासक्तमनसां चेन्द्रियार्थयोः सन्निकर्षनिमित्तत्वात् 2/1/27
 
तैश्चापदेशो ज्ञानविशेषाणाम् 2/1/28
 
व्याहतत्वादहेतुः 2/1/29
 
नार्थविशेषप्राबल्यात् 2/1/30
 
प्रत्यक्षमनुमानमेकदेशग्रहणादुपलब्धेः 2/1/31
 
न प्रत्यक्षेण यावत्तावदप्युपलम्भात् 2/1/32
 
न चैकदेशोपलब्धिरवयविसद्भावात् 2/1/33
 
साध्यत्वादवयविनि सन्देहः 2/1/34
 
सर्वाग्रहणमवयव्यसिद्धेः 2/1/35
 
धारणाकर्षणोपपत्तेश्च 2/1/36
 
सेनावनवत् ग्रहणामिति चेन्नातीन्द्रियत्वादणूनाम् 2/1/37
 
रोधोपघातसादृश्येभ्यो व्यभिचारादनुमानमप्रमाणम् 2/1/38
 
नैकदेशत्राससादृश्येभ्याऽर्थान्तरभावात् 2/1/39
 
वर्त्तमानाभावः पततः पतितपतितव्यकालोपपत्तेः 2/1/40
 
तयोरप्यभावो वर्तमानाभावे तदपेक्षत्वात् 2/1/41
 
नातीतानागतयोरितरेतरापेक्षासिद्धिः 2/1/42
 
वर्तमानाभावे सर्वाग्रहणम् प्रत्यक्षानुपपत्तेः 2/1/43
 
कृतताकर्तव्यतोपपत्तेस्तूभयथा ग्रहणम् 2/1/44
 
अत्यन्तप्रायैकदेशसाधर्म्यादुपमानासिद्धिः 2/1/45
 
प्रसिद्धसाधर्म्यादुपमानसिद्धेर्यथोक्तदोषानुपपत्तिः 2/1/46
 
प्रत्यक्षेणाप्रत्यक्षसिद्धेः 2/1/47
 
नाप्रत्यक्षे गवये प्रमाणार्थमुपमानस्य पश्यामः 2/1/48
 
तथेत्युपसंहारादुपमानसिद्धेर्नाविशेषः 2/1/49
 
शब्दोऽनुमानमर्थस्यानुपलब्धेरनुमेयत्वात् 2/1/50
 
उपलब्धेरद्विप्रवृत्तित्वात् ? 2/1/51
 
सम्बन्धाच्च ? 2/1/51
 
आप्तोपदेशसामर्थ्याच्छब्दादर्थसम्प्रत्ययः 2/1/52
 
पूरणप्रदाहपाटनानुपलब्धेश्च सम्बन्धाभावः 2/1/53
 
शब्दार्थव्यवस्थानादप्रतिषेधः? 2/1/54
 
न सामयिकत्वाच्छब्दार्थसम्प्रत्ययस्य 2/1/55
 
जातिविशेषे चानियमात् 2/1/56
 
तदप्रमाण्यमनृतव्याघातपुनरुक्तदोषेभ्यः 2/1/57
 
न कर्मकर्तृसाधनवैगुण्यात् 2/1/58
 
अभ्युपेत्य कालभेदे दोषवचनात् 2/1/59
 
अनुवादोपपत्तेश्च 2/1/60
 
वाक्यविभागस्य चार्थग्रहणात् 2/1/61
 
विध्यर्थवादानुवादवचनविनियोगात् 2/1/62
 
विधिर्विधायकः 2/1/63
 
स्तुतिर्निन्दा परकृतिः पुराकल्प इत्यर्थवादः 2/1/64
 
विधिविहितस्यानुवचनमनुवादः 2/1/65
 
नानुवादपुनरुक्तयोर्विशेषः शब्दाभ्यासोपपत्तेः 2/1/66
 
शीघ्रतरगमनोपदेशवदभ्यासान्नाविशेषः 2/1/67
 
मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात् 2/1/68
 
|| अथ द्वितीयाध्याये द्वितीयमाह्निकम् ||
 
न चतुष्ट्वमैतिह्यार्थापत्तिसम्भवाभावप्रामाण्यात् 2/2/1
 
शब्द ऐतिह्यानर्थान्तरभावादनुमानेऽर्थापत्तिसम्भवाभावानर्थान्तरभावाच्चाप्रतिषेधः  2/2/2
 
अर्थापत्तिरप्रमाणमनैकान्तिकत्वात्  2/2/3
 
अनर्थापत्तावर्थापत्त्यभिमानात्  2/2/4
 
प्रतिषेधाप्रामाण्यञ्चानैकान्तिकत्वात्  2/2/4
 
तत्प्रामाण्ये वा नार्थापत्त्यप्रामाण्यम्  2/2/5
 
नाभावप्रामाण्यं प्रमेयासिद्धेः  2/2/6
 
लक्षितेष्वलक्षणलक्षितत्वादलक्षितानां तत्प्रमेयसिद्धिः  2/2/7
 
असत्यर्थे नाभाव इति चेत्र, अन्यलक्षणोपपत्तेः  2/2/8
 
तत्सिद्धेरलक्षितेष्वहेतुः  2/2/90
 
नः लक्षणावस्थितापेक्षासिद्धेः  2/2/11
 
प्रागुत्पत्तेरभावोपपत्तेश्च  2/2/12
 
आदिमत्त्वादैन्द्रियकत्वात् कृतकवदुपचाराच्च  2/2/13
 
नः घटाभावसामान्यनित्यत्वात् नित्येप्वप्यनित्यवदुपचाराच्च  2/2/14
 
तत्त्वभाक्तयोर्नानात्वविभागादव्यभिचारः  2/2/15
 
सन्तानानुमानविशेषणात्  2/2/16
 
कारणद्रव्यस्य प्रदेशशब्देनाभिधानात्  2/2/17
 
प्रागुच्चारणादनुपलब्धेरावरणाद्यनुपलब्धेश्च  2/2/18
 
तदनुपलब्धेरनुपलम्भादावरणोपत्तिः  2/2/19
 
अनुपलम्भादप्यनुपलब्धिसद्भाववन्नावरणानुपपत्तिरनुपलम्भात्  2/2/20
 
अनुपलम्भात्मकत्वादनुलब्धेरहेतुः 2/2/21
 
अस्पर्शत्वात् 2/2/22
 
न, कर्मानित्यत्वात् 2/2/23
 
न, अणुनित्यत्वात् 2/2/24
 
सम्प्रदानात् 2/2/25
 
तदन्तरालानुपलब्धेरहेतुः 2/2/26
 
अध्यापनादप्रतिषेधः 2/2/27
 
उभयोः पक्षयोरन्यतरस्याध्यापनादप्रतिषेधः 2/2/28
 
अभ्यासात् 2/2/29
 
नान्यत्वेऽप्यभ्यासस्योपचारात् 2/2/30
 
अन्यदन्यस्मादनन्यत्वादनन्यदित्यन्यताऽभावः 2/2/31
 
तदभावे नास्त्यनन्यता, तयोरितरेतरापेक्षसिद्धेः 2/2/32
 
विनाशकारणानुपलब्धेः 2/2/33
 
अश्रवणकारणानुपलब्धेः सततश्रवणप्रसङ्गः 2/2/34
 
उपलभ्यमाने चानुपलब्धेरसत्त्वादनपदेशः 2/2/35
 
पाणिनिमित्तप्रश्लेषाच्छब्दाभावे नानुपलब्धिः 2/2/36
 
विनाशकारणानुपलब्धेश्चावस्थाने तन्नित्यत्वप्रसङ्गः 2/2/37
 
अस्पर्शत्वादप्रतिषेधः 2/2/38
 
विभक्तयन्तरोपपत्तेश्च समासे 2/2/39
 
विकारादेशोपदेशात् संशयः 2/2/40
 
प्रकृतिविवृद्धौ विकारविवृद्धेः 2/2/41
 
न्यूनसमाधिकोपलब्धेर्विकाराणामहेतुः 2/2/42
 
द्विविधस्यापि हेतोरभावादसाधनं दृष्टान्तः 2/2/43
 
नः अतुल्यप्रकृतीनां विकारविकल्पात् 2/2/44
 
द्रव्यविकारवैषम्यवद्वर्णविकारविकल्पः 2/2/45
 
न; विकारधर्मानुपपत्तेः 2/2/46
 
विकारप्राप्तानामपुनरापत्तेः 2/2/47
 
सुवर्णादीनां पुनरापत्तेरहेतुः 2/2/48
 
न; तद्विकाराणां सुवर्णभावाव्यतिरेकात् 2/2/49
 
नित्यत्वेऽविकारादनित्यत्वे चानवस्थानात् 2/2/50
 
नित्यानामतीन्द्रियत्वात् तद्धर्मविकल्पाच्च वर्णविकाराणामप्रतिषेधः 2/2/51
 
अनवस्थायित्वे च वर्णोपलब्धिवत्तद्विकारोपपत्तिः 2/2/52
 
विकारधर्मित्वे नित्यत्वाभावात् कालान्तरे विकारोपपत्तेश्चाप्रतिषेधः 2/2/53
 
प्रकृत्यनियमाद् 2/2/54
 
अनियमे नियमान्नानियमः 2/2/55
 
नियमानियमविरोधादनियमे नियमाच्चाप्रतिषेधः 2/2/56
 
गुणान्तरापत्त्युपमर्दह्रासवृद्धिलेशश्लेषेभ्यस्तु विकारोपपत्तेर्वर्णविकारः 2/2/57
 
ते विभक्त्यन्ताः पदम् 2/2/58
 
व्यक्त्याकृतिजातिसन्निधावुपचारात् संशयः 2/2/59
 
या शब्दसमूहत्यागपरिग्रहसङ्ख्यावृद्ध्युपचयवर्णसमासानुबन्धानां व्यक्तावुपचाराद् व्यक्तिः 2/2/60
 
न; तदनवस्थानात् 2/2/61
 
सहचरणसथानतादर्थ्यवृत्तमानधारणसामीप्ययोगसाधनाधिपत्येभ्यो ब्राह्मणमञ्चकटराजसक्तुचन्दनगङ्गाशाटकान्नपुरुषेप्वतद्भावेऽपि तदुपचारः 2/2/62
 
आकृतिस्तपदपेक्षत्वात् सत्त्वव्यस्थानसिद्धेः ? 2/2/63
 
व्यक्त्याकृतियुक्तेऽप्यप्रसङ्गात् प्रोक्षणादीनां मृद्गवके जातिः ? 2/2/63
 
न, आकृतिव्यक्तयपेक्षत्वाज्जात्यभिव्यक्तेः 2/2/64
 
व्यक्त्त्याकृतिजातयस्तु पदार्थः 2/2/65
 
व्यक्तिगुणविशेषाश्रयो मूर्तिः 2/2/66
 
आकृतिर्जातिलिङ्गाख्या 2/2/67
 
समानप्रसवात्मिका जातिः 2/2/68
 
|| अथ तृतीयोऽध्याये, प्रथमाह्निकम् ||
 
दर्शनस्पर्शनाभ्यामेकार्थग्रहणात् 3/1/1
 
विषयव्यवस्थानात् 3/1/2
 
तद्व्यवस्थानादेवात्मसद्भावादप्रतिषेधः 3/1/3
 
शरीरदाहे पातकाभावात् 3/1/4
 
तदभावः, सात्मकप्रदाहेऽपि तन्नित्यत्वात् 3/1/5
 
न; कार्याश्रयकर्तृवधात् 3/1/6
 
सव्यदृष्टस्येतरेण प्रत्यभिज्ञानात् 3/1/7
 
नैकस्मिन्नासास्थिव्यवहिते द्वित्वाभिमानात् 3/1/8
 
एकविनाशे द्वितीयाविनाशन्नैकत्वम् 3/1/9
 
अवयवनाशेऽप्यवयव्युपलब्धेरहेतुः 3/1/10
 
दृष्टान्तविरोधादप्रतिषेधः 3/1/11
 
इन्द्रियान्तरविकारात् 3/1/12
 
नः स्मृतेः स्मर्त्तव्यविषयत्वात् 3/1/13
 
तदात्मगुणसद्भावादप्रतिषेधः 3/1/14
 
न; आत्मप्रतिपत्तिहेतूनां मनसि सम्भवात् 3/1/15
 
ज्ञातुर्ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम् 3/1/16
 
नियमञ्च निरनुमानः3/1/17
 
पूर्वाभ्यस्तरस्मृत्यनुबन्धात् जातस्य हर्षभयशोकसम्प्रतिपत्तेः 3/1/18
 
पद्मादिषु प्रबोधसम्मीलनविकारवत्तद्विकारः 3/1/19
 
न; उष्णशीतवर्षाकालनिमित्तत्वात् पञ्चात्मकविकाराणाम् 3/1/20
 
प्रेत्याहाराभ्यासकृतात् स्तन्याभिलाषात् 3/1/21
 
अयसोऽस्कान्ताभिगमनवत्तदुपसर्पणम् 3/1/22
 
न; अन्यत्र प्रवृत्त्यभावात् 3/1/23
 
वीतरागजन्मादर्शनात् 3/1/24
 
सगुणद्रव्योत्पत्तिवत् तदुत्पत्तिः 3/1/25
 
न; सङ्कल्पनिमित्तत्वाद्रागादीनाम् 3/1/26
 
पार्थिवं गुणान्तरोपलब्धेः 3/1/27
 
पार्थिवाप्यतैजसं तदुणोपलब्धेः 3/1/28
 
निः श्वासोच्छासोपलब्धेश्चातुभौतिकम् 3/1/29
 
गन्धक्लेदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकम् 3/1/30
 
श्रुतिप्रामाण्याच्च 3/1/31
 
कृष्णसारे सत्युपलम्भाद्व्यतिरिच्य चोपलम्भात् संशयः 3/1/32
 
महदणुग्रहणात् 3/1/33
 
रश्म्यर्थसन्निकर्षविशेषात् तद्ग्रहणम् 3/1/34
 
तदनुपलब्धेरहेतुः 3/1/35
 
नानुमीयमानस्य  प्रत्यक्षतोऽनुपलब्धिरभावहेतुः 3/1/36
 
द्रव्यगुणधर्मभेदाच्चोपलब्धिनियमः 3/1/37
 
अनेकद्रव्यसमवायाद्रूपविशेषाच्च रूपोपलब्धिः 3/1/38
 
कर्मकारितश्चेन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः 3/1/39
 
माध्यन्दिनोल्काप्रकाशानुपलब्धिवत्तदनुपलब्धिः 3/1/40
 
न रात्रावप्यनुपलब्धेः 3/1/41
 
आदर्शोदकयोः प्रसादस्वाभाव्याद्रूपोपलब्धिवत्तदुपलब्धिः 3/1/42
 
दृष्टानुमितानां नियोगप्रतिषेधानुपपत्तिः 3/1/43
 
स्थानान्यत्वे नानात्वादवयविनानास्थानत्वाच्च संशयः 3/1/44
 
त्वगव्यतिरेकात् 3/1/45
 
न युगपदर्थानुपलब्धेः 3/1/46
 
विप्रतिषेधाच्च न त्वगेका 3/1/47
 
इन्द्रियार्थपञ्चत्वात् 3/1/48
 
न तदर्थबहुत्वात् 3/1/49
 
गन्धत्वाद्यव्यतिरेकाद् गन्धादीनामप्रतिषेधः 3/1/50
 
विषयत्वाव्यतिरेकादेकत्वम् 3/1/51
 
न; बुद्धिलक्षणाधिष्ठानगत्याकृतिजातिपञ्चत्वेभ्यः 3/1/52
 
भूतगुणविशेषोपलब्धेस्तादात्म्यम् 3/1/53
 
गन्धरसरूपस्पर्शशब्दानां स्पर्शपर्यन्ताः पृथिव्याः 3/1/54
 
अप्तेजोवायूनां पूर्वपूर्वम पोह्याकाशस्योत्तरः 3/1/55
 
न सर्वगुणानुपलब्धेः 3/1/56
 
एकैकश्येनोत्तरोत्तरगुणसद्भावादुत्तराणां तदनुपलब्धिः 3/1/57
 
विष्टं ह्यपरं परेण 3/1/58
 
नः पार्थिवाप्ययोः प्रत्यक्षत्वात् 3/1/59
 
पूर्वपूर्वगुणोत्कर्षात् तत्तत्प्रधानम् 3/1/60
 
तद्व्यवस्थानं तु भूयस्त्वात् 3/1/61
 
सगुणानामिन्द्रियभावात् 3/1/62
 
तेनैव तस्याग्रहणाच्च 3/1/64
 
न शब्दगुणोपलब्धेः 3/1/65
 
तदुपलब्धिरितरेतरद्रव्यगुणवैधर्म्यात् 3/1/66
 
|| अथ तृतीयोऽध्याये द्वितीयमाह्निकम् ||
 
कर्माकाशसाधर्म्यात् संशयः 3/2/1
 
विषयप्रत्यभिज्ञानात्  3/2/2
 
साध्यसमत्वादहेतुः  3/2/3
 
न युगपदग्रहणात्  3/2/4
 
अप्रत्यभिज्ञाने च विनाशप्रसङ्गः 3/2/5
 
क्रमवृत्तित्वादयुगपदग्रहणम्  3/2/6
 
अप्रत्यभिज्ञानश्च विषयान्तरव्यासङ्गात्  3/2/7
 
नः गत्यभावात्  3/2/8
 
स्फटिकान्यत्वाभिमानवत्तदन्यत्वाभिमानः  3/2/9
 
स्फटिकेऽप्यपरापरोत्पत्तेः क्षणिकत्वाद्वयक्तीनामहेतुः  3/2/10
 
नियमहेत्वभावाद् यथादर्शनमभ्यनुज्ञा  3/2/11
 
नः उत्पत्तिविनाशकारणोपलब्धेः  3/2/12
 
क्षीरविनाशे कारणानुपलव्धिवद्दध्युत्पत्तिवच्च तदुपपत्तिः  3/2/13
 
लिङ्गतो ग्रहणान्ननुपलब्धिः  3/2/14
 
न पयसः परिणामगुणान्तरप्रादुर्भावात्  3/2/15
 
व्यूहान्तराद् द्रव्यान्तरोत्पत्तिदर्शनं पूर्वद्रव्यनिवृत्तेरनुमानम्  3/2/16
 
क्वचिद्विनाशकरणानुपलब्धेः क्वचिच्चोपलब्धेरनेकान्तः  3/2/17
 
नेन्द्रियार्थयोस्तद्विनाशेऽपि ज्ञानावस्थानात् 3/2/18
 
युगपज्ज्ञेयानुपलब्धेश्च न मनसः  3/2/19
 
तदात्मगुणत्वेऽपि तुल्यम् 3/2/20
 
इन्द्रियैर्मनसः सन्निकर्षाभावात् तदनुत्पत्तिः 3/2/21
 
न; उत्पत्तिकारणानपदेशात् 3/2/22
 
विनाशकारणानुपलब्धेश्चावस्थाने तन्नित्यत्वप्रसङ्गः 3/2/23
 
अनित्यत्वग्रहाद् बुद्धेर्बुर्द्धयन्तराद्विनाशः शब्दवत् 3/2/24
 
ज्ञानसमवेतात्मप्रदेशसन्निकर्षान्मनसः स्मृत्युत्पत्तेर्न युगपदुत्पत्तिः 3/2/25
 
न; अन्तः शरीरवृत्तित्वान्मनसः 3/2/26
 
साध्यत्वादहेतुः 3/2/27
 
स्मरतः शरीरधारणोपपत्तेरप्रतिषेधः 3/2/28
 
न तदाशुगतित्वान्मनसः 3/2/29
 
न; स्मरणकालानियात् 3/2/30
 
आत्मप्रेरणयदृच्छाज्ञताभिश्च न संयोगविशेषः 3/2/31
 
व्यासक्तमनसः पादव्यथनेन संयोगविशेषेण समानम् 3/2/32
 
प्रणिधानलिङ्गदिज्ञानानामयुपद्भावादयुगपदस्मरणम् 3/2/33
 
ज्ञस्येच्छाद्वेषनिमित्तित्वादारम्भनिवृत्त्योः 3/2/34
 
तल्ल्ङ्गित्वादिच्छाद्वेषयोः पार्थिवाद्येप्वप्रतिषेधः 3/2/35
 
परश्वादिष्वारम्भनिवृत्तिदर्शनात् 3/2/36
 
नियमानियमौ तु तद्विशेषकौ 3/2/37
 
यथोक्तहेतुत्वात् पारतन्त्र्यादकृताभ्यागमाच्च न मनसः 3/2/38
 
प्रणिधाननिबन्धाभ्यासलिङ्गलक्षणसादृश्यपरिग्रहणाश्रयाश्रितसम्बन्धानन्तर्यवियोगैककार्यविरोधातिशयप्राप्तिव्यवधानसुखदुःखेच्छाद्वेषभयाऽर्थित्वक्रियारागधर्माधर्मनिमित्तेभ्यः 3/2/39
 
कर्मानवस्थायिग्रहणात् 3/2/40
 
अव्यक्तग्रहणमनवस्थायित्वात् विद्युत्सम्पाते रूपाद्यव्यक्तग्रहणवत् 3/2/41
 
हेतूपादानात् प्रतिषेद्धव्याभ्यनुज्ञा 3/2/42
 
प्रदीपार्च्चिषः सन्तत्यभिव्यक्त ग्रहणवत् तद्ग्रहणम्  3/2/43
 
द्रव्ये स्वगुणपरगुणोपलब्धेः संशयः 3/2/44
 
यावच्छरीरभावित्वाद् रूपादीनाम् 3/2/45
 
नः पाकगुणान्तरोत्पत्तेः 3/2/46
 
प्रतिद्वन्द्विसिद्धेः पाकजानामप्रतिषेधः 3/2/47
 
शरीरव्यापित्वात् 3/2/48
 
नः केशनखादिप्वनुपलब्धेः 3/2/49
 
त्वक्पर्यन्तत्वाच्छरीरस्य केशनखादि एव प्रसङ्गः 3/2/50
 
शरीरगुणवैधर्म्यात् 3/2/51
 
नः रूपादीनामितरेतरवैधर्म्यात् 3/2/52
 
ऐन्द्रियकत्वाद् रूपादीनामप्रतिषेधः 3/2/53
 
ज्ञानायौगपद्यादेकं मनः 3/2/54
 
नः युगपदनेकक्रियोपलब्धेः 3/2/55
 
अलातकचक्रदर्शनवत्तदुपलब्धिराशुसञ्चरात्  3/2/56
 
यथोक्तहेतुत्वाच्चाणु 3/2/57
 
पूर्वकृतफलानुबन्धात्तदुत्पत्तिः 3/2/58
 
भूतेभ्यो मूर्त्त्युपादानवत् तदुपादानम् 3/2/59
 
नः साध्यसमत्वात् 3/2/60
 
न; उत्पत्तिनिमित्तत्वान्मातापित्रोः 3/2/61
 
तथाहारस्य 3/2/62
 
प्राप्तौ चानियमात् 3/2/63
 
शरीरोत्पत्तिनिमित्तवत् संयोगात्पत्तिनिमित्तं कर्म 3/2/64
 
एतेनानियमः प्रयुक्तः 3/2/65
 
तददृष्टकारितमिति चेत् । पुनस्तत्प्रसङ्गोऽपवर्गे 3/2/66
 
मनः कर्मनिमित्तात्वाच्च संयोगानुच्छेदः 3/2/67
 
नित्यत्वप्रसङ्गश्च प्रायेणानुपपत्तेः 3/2/68
 
अणुश्यामतानित्यत्ववदेतत् स्यात् 3/2/69
 
नः अकृताभ्यागमप्रसङ्गात्  3/2/70
 
।। अथ चतुर्थोऽध्याये, प्रथमाह्निकम् ।।
 
प्रवृत्तिर्यथोक्ता 4/1/1
 
तथा दोषाः 4/1/2
 
तत्त्रैराश्यं रागद्वेषमोहार्थान्तरभावात् 4/1/3
 
नैकप्रत्यनीकभावात् 4/1/4
 
व्यभिचारादहेतुः 4/1/5
 
तेषां मोहः पापीयान्नामूढस्येतरोत्पत्तेः 4/1/6
 
निमित्तनैमित्तकभावादर्थान्तरभावो दोषेभ्यः 4/1/7
 
न दोषलक्षणावरोधान्मोहस्य 4/1/8
 
निमित्तनैमित्तिकोपपतेश्च तुल्यजातीयानामप्रतिषेधः 4/1/9
 
आत्मनित्यत्वे प्रेत्यभावसिद्धिः 4/1/10
 
व्यक्ताद्वयक्तानां प्रत्यक्षप्रामाण्यात् 4/1/11
 
नः घटाद् घटानिष्पत्तेः 4/1/12
 
व्यक्ताद् घटनिष्पत्तेरप्रतिषेधः 4/1/13
 
अभावाद्भावोत्पत्तिर्नानुपमृद्य प्रादुर्भावात् 4/1/14
 
व्याघातादप्रयोगः 4/1/15
 
नः अतीतानागतयोः कारकशब्दप्रयोगात् 4/1/16
 
न विनष्टेभ्योऽनिष्पत्तेः 4/1/17
 
क्रमनिर्देशादप्रतिषेधः 4/1/18
 
ईश्वरः कारणं पुरुषकर्माफल्यदर्शनात् 4/1/19
 
नः पुरुषकर्माभावे फलानिष्पत्तेः 4/1/20
 
तत्कारितत्वादहेतुः 4/1/21
 
अनिमित्ततो भावोत्पत्तिः, कण्टकतैक्ष्ण्यादिदर्शनात् 4/1/22
 
अनिमित्तनिमित्तत्वान्नानिमित्ततः 4/1/23
 
निमित्तानिमित्तयोरर्थान्तरभावादप्रतिषेधः 4/1/24
 
सर्वमनित्यमुत्पत्तिविनाशधर्मकत्वात् 4/1/25
 
नानित्यतानित्यत्वात् 4/1/26
 
तदनित्यत्वमग्रेर्दाह्यं विनाश्यानुविनाशवत् 4/1/27
 
नित्यस्याप्रत्याख्यानं यथोपलब्धिव्यवस्थानात् 4/1/28
 
सर्व नित्यं पञ्चभूतनित्यत्वात् 4/1/29
 
नोत्पत्तिविनाशकारणोपलब्धेः 4/1/30
 
न व्यवस्थानुपपत्ते 4/1/31
 
सर्वं पृथक्, भावलक्षणपृथक्त्वात 4/1/32
 
न, अनेकलक्षणैरेकभावनुष्पत्तेः 4/1/33
 
लक्षणव्यवस्थानादेवाप्रतिषेधः 4/1/34
 
सर्वमभावो भावेश्वितरेतराभावसिद्धेः 4/1/35
 
न. स्वभावसिद्धेर्भावानाम्  4/1/36
 
न स्वभावसिद्धिरापेक्षिकत्वात् 4/1/37
 
व्याहतत्वादयुक्तम् 4/1/38
 
सङ्ख्यैकान्तासिद्धिः कारणानुपपत्त्युपपत्तिभ्याम् 4/1/39
 
न कारणावयवभावात् 4/1/40
 
निरवयवत्वादहेतुः 4/1/41
 
सद्यः कालान्तरे च फलनिष्पत्तेः संशयः 4/1/42
 
कालान्तरेणानिष्पत्तिहेतुविनाशात् 4/1/43
 
प्रा‌ङ्निष्पत्तेर्वृक्षफलवत्तत् स्यात्  4/1/44
 
नासन्न सन्न सदसत्, सदसतोवैधर्म्यात्  4/1/45
 
उत्पादव्ययदर्शनात्  4/1/46
 
बुद्धिसिद्धं तु तदसत् 4/1/47
 
आश्रयव्यतिरेकाद् वृक्षफलोत्पत्तिवदित्यहेतुः 4/1/48
 
प्रीतेरात्माश्रयत्वादप्रतिषेधः 4/1/40
 
न पुश्पशुस्त्रीपरिच्छेदहिरण्यात्रादिफलनिर्देशात् 4/1/50
 
तत्सम्बन्धात् फलनिष्पत्तेस्तेषु फलवदुपचारः 4/1/51
 
विविधबाधनायोगाद् दुःखमेव जन्मोत्पत्तिः 4/1/5
 
नः सुखस्याप्यन्तरालनिष्पत्तेः 4/1/52
 
बाधनाऽनिवृत्तेवेदयतः पर्येषणदोषादप्रतिषेधः 4/1/53
 
दुःखविकल्पे सुखाभिमानाच्च 4/1/54
 
ऋणक्लेशप्रवृत्त्यनुबन्धादपवर्गाभावः 4/1/55
 
प्रधानशब्दानुपपत्तेर्गुणशब्देनानुवादो निन्दाप्रशंसोपपत्तेः 4/1/56
 
समारोपणादात्मन्यप्रतिषेधः 4/1/57
 
पात्रचयान्तानुपपत्तेश्च फलाभावः 4/1/58
 
सुषुप्तस्य स्वप्रादर्शन क्लेशाभावादपवर्गः 4/1/59
 
न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य 4/1/60
 
न क्लेशसन्ततेः स्वाभाविकत्वात् 4/1/61
 
प्रागुत्पत्तेरभावानित्यतववत् स्वाभाविकेऽप्यनित्यत्वम् 4/1/62
 
अणुश्यामताऽनित्यत्ववद्वा 4/1/63
 
न सङ्कल्पनिमित्तत्वाच्च रागादीनाम् 4/1/64
 
।। अथ चतुर्थोऽध्याये द्वितीयमाह्निकम् ।।
 
दोषमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिः 4/2/1
 
दोषनिमित्तं रूपादयो विषयाः सङ्कल्पकृताः 4/2/2
 
तन्निमित्तं त्वमवयव्यभिमानः 4/2/3
 
विद्याऽविद्याद्वैविध्यात् संशयः 4/2/4
 
तदसंशयः पूर्वहेतुप्रसिद्धत्वात् 4/2/5
 
वृत्त्यनुपपत्तेरपि तर्हि न संशयः 4/2/6
 
कृत्स्त्रैकदेशावृत्तित्वादवयवानामवयव्यभावः ।4/2/7
 
तेषु चावृत्तेरवयव्यभावः 4/2/8
 
पृथक् चावयवेभ्योऽवृत्तेः 4/2/9
 
न चावयव्यवयवाः 4/2/10
 
एकस्मिन् भेदाभावाद् भेदशब्दप्रयोगानुपपत्तेरप्रश्नः 4/2/11
 
अवयवान्तरभावेऽप्यवृत्तेरहेतुः 4/2/12
 
केशसमूहे तैमिरिकोपलब्धिवत्तदुपलब्धिः 4/2/13
 
स्वविषयानतिक्रमेणेन्द्रियस्य पटुमन्दभावाद् 4/2/14
 
विषयग्रहणस्य तथाभावो नाविषये प्रवृत्तिः 4/2/15
 
अवयवावयविप्रसङ्गश्चैवमाप्रलयात् 4/2/16
 
न प्रलयोऽणुसद्भावात् 4/2/17
 
परं वा त्रुटेः 4/2/18
 
आकाशव्यतिभेदात् तदनुपपत्तिः 4/2/19
 
आकाशासर्वगतत्वं वा  4/2/20
 
अन्त-र्बहिश्च कार्यद्रव्यस्य कारणान्तरवचनादकार्ये तदभावः 4/2/21
 
शब्दसंयोगाविभवाच्च्च सर्वगतम् 4/2/22
 
अव्यूहाविष्टम्भविभुत्वानि चाकाशधर्माः 4/2/23
 
मूर्त्तिमताञ्च संस्थानोपपत्तरेवयवसद्भावः 4/2/24
 
संयोगोपपत्तेश्च 4/2/25
 
अनवस्थाकारित्वादनवस्थानुपपत्तेश्चाप्रतिषेधः 4/2/26
 
बुद्धया विवेचनात्तु भावानां याथात्म्यानुपलब्धिस्तन्त्वपकर्षणे पटसद्भावानुपलब्धिवत् तदनुपलब्धिः 4/2/27
 
व्याहतत्वादहेतुः 4/2/28
 
तदाश्रयत्वादपृथग्ग्रहणम् 4/2/29
 
प्रमाणतश्चाऽर्थप्रतिपत्तेः 4/2/30
 
प्रमाणानुपपत्त्युपपत्तिभ्याम् 4/2/31
 
स्वप्रविषयाभिमानवदयं प्रमाणप्रमेयाभिमानः 4/2/32
 
मायागन्धर्वनगरमृगतृष्णिकावद्वा 4/2/33
 
हेत्वभावादसिद्धिः 4/2/34
 
स्मृतिसङ्कल्पवच्च स्वप्नविषयाभिमानः 4/2/35
 
मिथ्योपलब्धिविनाशस्तत्त्वज्ञानात् स्वप्नविषयाभिमानप्रणाशवत् प्रतिबोधे 4/2/36
 
बुद्धेश्चैवं निमित्तसद्भावोपलम्भात् । तत्त्वप्रधानभेदाच्च मिथ्याबुद्धेद्वैविध्योपपत्तिः 4/2/37
 
समाधिविशेषाभ्यासात् 4/2/38
 
नार्थविशेषप्राबल्यात् 4/2/39
 
क्षुदादिभिः प्रवर्तनाच्च 4/2/40
 
पूर्वकृतफलानुबन्धात् तदुत्पत्तिः 4/2/41
 
अरण्यगुहापुलिनादिषु योगाभ्यासोपदेशः 4/2/42
 
अपवर्गेऽप्येवं प्रसङ्गः 4/2/43
 
न, निष्पन्नावश्यम्भावित्वात् 4/2/44
 
तदभावश्चापवर्गे 4/2/45
 
तदर्थ यमनियमाभ्यामात्मसंस्करो योगाच्चाध्यात्मविध्युपायैः 4/2/46
 
ज्ञानग्रहणाभ्यासस्तद्विद्यैश्च सह संवादः 4/2/47
 
तं शिष्यगुरुसब्रह्मचारिविशिष्टश्रेयोऽर्थिभिरनसूयिभिरभ्युपेयात् 4/2/48
 
प्रतिपक्षहीनमपि वा प्रयोजनार्थमर्थित्वे 4/2/49
 
तत्त्वाध्यवसायसंरक्षणार्थ जल्पवितण्डे बीजप्ररोहसंरक्षणार्थ कण्टकशाखावरणवत् 4/2/50
 
ताभ्यां विगृह्य कथनम् 4/2/51
 
|| अथ पञ्चमोऽध्याये, प्रथमाह्निकम् ||
 
साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणहेत्वर्थापत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकार्यसमाः 5/1/1
 
साधर्म्यवैधर्म्याभ्यामुपसंहारे तद्धर्मविपर्ययोगपत्तेः साधर्म्यवैधर्म्यसमौ 5/1/2
 
गोत्वाद् गोसिद्धिवत् तत्सिद्धिः 5/1/3
 
साध्यदृष्टान्तयोधर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्षवर्यावर्ण्यविकल्पसाध्यसमाः 5/1/4
 
किञ्चित्साधर्म्यादुपसंहारसिद्धेर्वेधर्म्यादप्रतिषेधः 5/1/5
 
साध्यातिदेशाच्च दृष्टान्तोपपत्तेः 5/1/6
 
प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्या अविशिष्टत्वादप्राप्त्या असाधकत्वाच्च प्राप्त्यप्राप्तिसमौ 5/1/7
 
घटादिनिष्पत्तिदर्शनात् पीडने चाभिचारादप्रतिषेधः 5/1/8
 
दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ 5/1/9
 
प्रदीपोपादानप्रसङ्गनिवृत्तिवत्तद्विनिवृत्तिः 5/1/10
 
प्रतिदृष्टान्तहेतुत्वे च नाहेतुर्दृष्टान्तः 5/1/11
 
प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमयः 5/1/12
 
तथाभावादुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः 5/1/13
 
सामान्यदृष्टान्तयोरैन्द्रियकत्वे समाने नित्यानित्यसाधर्म्यात् संशयसमः 5/1/14
 
साधर्म्यात् संशये न संशयो वैधर्म्यादुभयथा वा संशयोऽत्यन्तसंशयप्रसङ्गो नित्यत्वानभ्युपगमाच्च सामान्यस्याप्रतिषेधः 5/1/15
 
उभयसाधर्म्यात् प्रक्रियासिद्धेः प्रकरणसमः 5/1/16
 
प्रतिपक्षात् प्रकरणसिद्धेः प्रतिषेधानुपपत्तिः प्रतिपक्षोपपत्तेः 5/1/17
 
त्रैकाल्यासिद्धेर्हेतोरहेतुसमः 5/1/18
 
न हेतुतः साध्यसिद्धेस्त्रैकाल्यासिद्धिः 5/1/19
 
प्रतिषेधानुपपत्तेश्च प्रतिषेध्याप्रतिषेधः 5/1/20
 
अर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्तिसमः  5/1/21
 
अनुक्तस्यार्थापत्तेः पक्षहानेरुपपत्तिरनुक्तत्वादनैकान्तिकत्वाच्चार्थापत्तेः  5/1/22
 
एकधर्मोपपत्तेरविशेष सर्वाविशेषप्रसङ्गात् सद्भावोपपत्तेरविशेषसमः  5/1/23
 
क्कचिद्धर्मानुपपत्तेः क्वचिच्चोपपत्तेः प्रतिषेधाभावः  5/1/24
 
उभयकारणोपपत्तेरुपपत्तिसमः  5/1/25
 
उपपत्तिकारणाभ्यनुज्ञानादप्रतिषेधः  5/1/26
 
निर्दिष्टकारणाभावेऽप्युपलम्भादुपलब्धिसमः  5/1/27
 
कारणान्तरादपि तद्धर्मोपपत्तेप्रतिषेधः  5/1/28
 
तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेरनुपलब्धिसमः  5/1/29
 
अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः  5/1/30
 
ज्ञानविकल्पनाञ्च भावाभावसंवेदनादध्यात्मम् 5/1/31
 
साधर्म्यात् तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः 5/1/32
 
साधर्म्यादसिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधर्म्याच्च 5/1/33
 
दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य हेतुत्वात्तस्य चोभयथाभावान्नाविशेषः 5/1/34
 
नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्नित्यसमः 5/1/35
 
प्रतिषेध्ये नित्यमनित्यभावादनित्येऽनित्यत्वोपपत्तेः प्रतिषेधाभावः 5/1/36
 
प्रयत्नकार्यानेकत्वात् कार्यसमः 5/1/37
 
कार्यान्यत्वे प्रयत्नाहेतुत्वमनुपलब्धिकरणोपपत्तेः 5/1/38
 
प्रतिषेधेऽपि समानो दोषः 5/1/39
 
सर्वत्रैवम् 5/1/40
 
प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद्दोषः 5/1/41
 
प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गो मतानुज्ञा 5/1/42
 
स्वपक्षलक्षणापेक्षोपपत्त्युपसंहारे हेतुनिर्देशे परपक्षदोषाभ्युपगमात् समानो दोषः 5/1/43
 
|| अथ पञ्चमोऽध्याये, द्वितीयमाह्निकम् ||
 
प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासंन्यासो हेत्वन्तरमर्थान्तरं निरर्थकमविज्ञातार्थमपार्थकमप्राप्तकालं न्यूनमधिकं पुनरुक्तमननुभाषणमज्ञानमप्रतिभा विक्षेपो मतानुज्ञापर्यनुयोजयोपेक्षणं निरनुयोज्यानुयोगोऽपसिद्धान्तो हेत्वाभासाश्च निग्रहस्थानानि 5/2/1
 
प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः  5/2/2
 
प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात्तदर्थनिर्देशः प्रतिज्ञान्तरम्  5/2/3
 
प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः  5/2/4
 
पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासंन्यासः  5/2/5
 
अविशेषोक्ते हैतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम्  5/2/6
 
प्रकृतादर्थादप्रतिसम्बद्धार्थमर्थान्तरम्  5/2/7
 
वर्णक्रमनिर्देशवन्निरर्थकम्  5/2/8
 
परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थकम्  5/2/9
 
पौर्वापर्यायोगादप्रतिसम्बद्धार्थमपार्थकम्  5/2/10
 
अवयवविपर्यासवचनमप्राप्तकालम् 5/2/11
 
हीनमन्यतमेनाप्यवयवेन न्यूनम् 5/2/12
 
हेतूदाहरणाधिकमधिकम् 5/2/13
 
शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् 5/2/14
 
अर्थादापन्नस्य स्वशब्देन पुनर्वचनम् 5/2/15
 
विज्ञातस्य परिषदा त्रिरभिहितस्याप्यनुच्चारणमननुभाषणम् 5/2/16
 
अविज्ञातञ्चाज्ञानम् 5/2/17
 
उत्तरस्याप्रतिपत्तिरप्रतिभा 5/2/18
 
कार्यव्यासङ्गात् कथाविच्छेदो विक्षेपः 5/2/19
 
स्वपक्षदोषाभ्युपगमात् परपक्षदोषप्रसङ्गो मतानुज्ञा 5/2/20
 
निग्रहस्थानप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणम् 5/2/21
 
अनिग्रहस्थाने निग्रहस्थानाभियोगो निरनुयोज्यानुयोगः 5/2/22
 
सिद्धान्तमभ्युपेत्यानियमात् कथाप्रसङ्गोऽपसिद्धान्तः 5/2/23
 
हेत्वाभासाश्च यथोक्ताः 5/2/24
 
[[New page]]

Revision as of 14:59, 30 January 2025