Sbg 9.9 scram
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Ramanuja ।।9.9।। न च तानि विषमसृष्ट्यादीनि कर्माणि मां निबध्नन्ति मयि नैर्घृण्यादिकं न आपादयन्ति? यतः क्षेत्रज्ञानां पूर्वकृत्यानि एव कर्माणि देवादिविषमभावहेतवः अहं तु तत्र वैषम्ये असक्तः तत्र उदासीनवद् आसीनः। यथा आह सूत्रकारः -- वैषम्यनैर्घृण्ये न सापेक्षत्वात् (ब्र0 सू0 2।1।34) न कर्माविभागादिति चेन्नानादित्वात् (ब्र0 सू0 2।1।35) इति।