Sbg 9.6 scms
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Madhusudan Saraswati ।।9.6।।असंश्लिष्टयोरप्याधाराधेयभावं दृष्टान्तेनाह -- यथैवासङ्गस्वभाव आकाशे स्थितो नित्यं सर्वदोत्पत्तिस्थितिसंहारकालेषु वातीति वायुः सर्वदा चलनस्वभावः। अतएव सर्वत्र गच्छतीति सर्वत्रगः। महान् परिमाणतः एतादृशोऽपि न कदाप्याकाशेन सह संसृज्यते। तथैवासङ्गस्वभावे मयि संश्लेषमन्तरेणैव सर्वाणि भूतान्याकाशादीनि महान्ति सर्वत्रगाणि च स्थितानीत्युपधारय विमृश्यावधारय।