Sbg 9.2 scang

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Abhinavgupta ।।9.2।।राजेति। राजते सर्वविद्यामध्ये वीप्यते या। इहैव ह्युच्यते -- अध्यात्मविद्या विद्यानाम् इति। राज्ञां जनकादीनाम् अत्र अधिकारः? तेषां रहस्यम् अतिगुप्तत्वात् (S??N प्रति गुप्तत्वात्)। क्षत्रियसुलभेन वी,(धी) रभावेनाविकम्पनात् (S??N -- कम्पत्वात्) कर्तुमनुष्ठातुं (N अनुष्ठानम्) सुसुखम्। [अव्ययम्]? न चास्य ब्रह्मोपासनात्मनः कर्मणः अन्यकर्मवदुपभोगादिना व्ययोऽस्ति।