Sbg 9.28 scval
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Vallabhacharya ।।9.28।।एवं च मर्यादायामनुगृहीतस्य तव या फलसिद्धिस्तामवधेहि -- शुभेति। एवं सति सन्न्यासस्त्यागो भजनार्थः फलादिविषयकोमनसैवानुद्रष्टव्यं इति वा योगस्तदभिन्न एकार्थकश्चेतसः समत्वं तेन युक्त आत्मा यस्य तथाविधस्त्वं कर्मबन्धनैरिष्टानिष्टफलैः मुक्तो भविष्यसि मुक्तिसिद्धर्भविता। जगति स्थितोऽपि त्वं मत्सेवको योगी संसारधर्माऽलिप्त एव मां पुरुषोत्तमं समुपैष्यसि सेवोपयोगिस्वरूपेण व्यापिवैकुण्ठे। मत्समीपे स्थास्यसीति भावः।