Sbg 9.27 scsh
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Shankaracharya ।।9.27।। --, यत् करोषि स्वतः प्राप्तम्? यत् अश्नासि? यच्च जुहोषि हवनं निर्वर्तयसि श्रौतं स्मार्तं वा? यत् ददासि प्रयच्छसि ब्राह्मणादिभ्यः हिरण्यान्नाज्यादि? यत् तपस्यसि तपः चरसि कौन्तेय? तत् कुरुष्व मदर्पणं मत्समर्पणम्।।एवं कुर्वतः तव यत् भवति? तत् श्रृणु --,