Sbg 9.27 scram
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Ramanuja ।।9.27।। यत् देहयात्रादिशेषभूतं लौकिकं कर्म करोषि? यत् च देहधारणाय अश्नासि? यत् च वैदिकं होमदानतपःप्रभृति नित्यनैमित्तिकं कर्म करोषि? तत् सर्वं मदर्पणं कुरुष्व। अर्प्यत इति अर्पणम्? सर्वस्य लौकिकस्य वैदिकस्य च कर्मणः कर्तृत्वं भोक्तृत्वं आराध्यत्वं च यथा मयि सर्वं समर्पितं भवति तथा कुरु।एतद् उक्तं भवति -- यागदानादिषु आराध्यतया प्रतीयमानानां देवादीनां कर्मकर्तुः भोक्तुः तव च मदीयतया मत्संकल्पायत्तस्वरूपस्थितिप्रवृत्तितया च मयि एव परमशेषिणि परमकर्तरि त्वां च कर्तारं भोक्तारम् आराधकम् आराध्यं च देवताजातम् आराधनं च क्रियाजातं सर्वं समर्पय। तव मन्नियाम्यतापूर्वकमच्छेषतैकरसताम् आराध्यादेः च एतत्स्वभावकगर्भताम् अत्यर्थप्रीतियुक्तः अनुसंधत्स्व इति।