Sbg 9.26 scvv

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha


।।9.26।।समानेऽप्यायासे प्राप्यवैषम्यमुक्तम्? अथोपायवैषम्यमुच्यत इत्याहमद्याजिनामिति। मद्यजनशीलानामित्यथः।अयमपीति उपास्यसौलभ्यातिशयप्रयुक्तोपायसौकर्यरूप इत्यर्थः। पत्रपुष्पफलानां प्रायशो हेतुकार्यभावात् क्रमविन्यासः। तस्य तत्तत्कालानुरूपं यथासम्भवं किमपि लभ्यमिति भावः। पत्रादीनां समासाकरणादसमुच्चयाच्च परस्परनैरपेक्ष्यं सूचितम् तद्द्योतनायपत्रं वेत्यादिविकल्पकरणम्। एकैकेन तुष्यति भगवानिति ह्युच्यते।अन्यत्पूर्णादपां कुम्भादन्यत्पादावनेज(सेच)नात्। अन्यत्कुशलसम्प्रश्ना(न्नैवेक्ष्यति)न्न चेच्छति जनार्दनः [म.भा.5।87।13] इति सर्वाभावेऽपि तोयं लभ्यमित्यभिप्रायेण तस्य पश्चादुक्तिः। नह्येतद्वित्तव्ययादिसाध्यतया दरिद्रादीनां दुर्लभमित्यभिप्रायेणसर्वसुलभमित्युक्तम्। अन्यत्र चाहुः -- पत्रेषु पुष्पेषु फलेषु तोयेष्वक्रीतलभ्येषु सदैव सत्सु। भक्त्यैकलभ्ये पुरुषे पुराणे मुक्त्यै किमर्थं क्रियते न यत्नः [गा.पु.पू.219।34ना.पु.62।19] इति। य इति सामान्यनिर्देशेन सापराधनिरपराधजडाजडादिविभागमपि न पश्यामीत्यभिप्रेतम्। वक्ष्यति हि -- येऽपि स्युः पापयोनयः। स्त्रियो वैश्याः [9।32] इत्यादि।


भक्त्येति।भक्त्येत्यनेन दृष्टादृष्टप्रत्यवायपरिहारफलान्तरहेतुत्वव्यवच्छेदः तद्व्यञ्जयतिअत्यथंति। प्रयतात्मशब्दं व्याख्यातितत्प्रदानति।तस्य ताम्रतलौ तात चरणौ सुप्रतिष्ठितौ। सुजातमृदुरक्ताभिरङ्गुलीभिरलङ्कृतौ। प्रयत्नेन मया मूर्ध्ना गृहीत्वा ह्यभिवन्दितौ इत्यादिष्विव प्रयोजनान्तररागरूपाशुद्धिविरहः प्रयतत्वमित्यर्थः। पुण्येष्वपि फलाभिसन्धिरेव हि मनसोऽशुद्धिः। तदप्याहुः -- तपो न कल्कोऽध्ययनं न कल्कः स्वाभाविको वेदविधिर्न कल्कः। प्रसह्य वित्ताहरणं न कल्कस्तान्येव भावोपहतानि कल्कः [म.भा.1.1।275] इति।भक्त्युपहृतम् इति पुनः कीर्तनं भगवदादरणीयत्वे हेतुरयमेवेति ज्ञापनार्थम्। तथाच स्वयमेवाहअण्वप्युपहृतं भक्तैर्मम भोगाय जायते। भूर्यप्यभक्तोपहृतं न मे भोगाय जायते [पं.रा.] इति। फलाभिलाषिणामपि काचिद्भक्तिरस्तीति तद्व्युदासाय तच्छब्द इत्यभिप्रायेणतथाविधभक्त्युपहृतमित्युक्तम्। पत्रादिक्षुद्रद्रव्यपरिग्रहपरिपन्थिनः प्रकारा अहंशब्देन विवक्षिता इति दर्शयितुंसर्वेश्वर इत्यादिकम्। अपिशब्दः प्रत्येकमन्वेतव्यः।सर्वेश्वर इति यथेन्द्रादयः स्वशक्तिवृद्धये हविरादिकं गृह्णन्ति न हि तथाऽहं? सर्वगोचरसदातननियमनशक्तिशालित्वादिति भावः।


निखिलजगदुदयविभवलयलील इति न हि मल्लीलोपकरणाद्बहिर्भूतं पत्रादिकं मह्यं दीयत इति भावः।अवाप्तसमस्तकाम इति न हि मे अनवाप्तमवाप्तव्यमस्तीत्यभिप्रायः।सत्यसङ्कल्प इति न हि ममाशक्यं किञ्चिदन्येनोपहृतं स्वीक्रियत इति भावः।अनवधिकेत्यादि गुणतः स्वरूपतश्च निरतिशयानन्दतप्तस्य मे कियदिदं पत्रादिकं इति तात्पर्यम्।स्वाभाविकशब्देन हेतुनैरपेक्ष्यं?वर्तमानशब्देन चानिवर्त्यत्वं विवक्षितम्।परिपूर्णोऽपि भगवान् भक्तैर्यत्किञ्चिदीरितम्। सापेक्षवत्तदादत्ते तेन प्रीतो ददात्यलम् [म.भा.12।35।64] इत्यस्यार्थमभिप्रयन्नाहमनोरथेति।अश्नामि इत्युपभोगमात्रलक्षणा तेन निवेद्याभावे पत्रादिकमपि निवेद्यं स्यादिति व्यज्यते। फलान्तरार्थिजनसमर्पितानांतत्सर्वं वेदवेद्यस्य (कृत्स्नं तु तस्य देवस्य) चरणावुपतिष्ठते [म.भा.12।343।63] इति भगवत्पादोपसर्पणमुक्त्वा परमैकान्तिजनदत्तानां भगवताऽत्यादरेण शिरसा प्रतिग्रहो मोक्षधर्मेऽभिहित इत्याहयथोक्तमिति।