Sbg 9.26 scval
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Vallabhacharya ।।9.26।।तदेवं स्वभक्तानां स्वप्राप्तिप्रकारं उक्त्वाऽधुना स्वभक्तेः सर्वोत्तमत्वमनायासत्वेनेतरविलक्षणत्वं च दर्शयति -- पत्रं पुष्पमिति। विवृत्तमेतद्भागवतसुबोधिन्यां इति नात्र प्रपञ्च्यते। न हि महाविभूतेः परमात्मनो मम क्षुद्रदेवतानामिव बहुपचाराडम्बरेण परितोषःकिमासनं ते गरुडासनाय इत्युक्तत्वात् किन्तु भक्तमात्रेण समर्पितं पत्रादिमात्रमपि विदुरस्येव तस्य भक्तस्य प्रयतचित्तस्य मत्सम्बद्धात्मन आत्मनिवेदिनो वा भक्त्याऽर्पितं विश्वासदार्ढ्यार्यं चाश्नामि। अयं तेभ्यो विशेषो दर्शितः। स्वल्पोपचारमात्रेणैव भक्त्या बहुप्रतोषलाभ इतिअनश्नन्भगवान्वेदे भक्तावशनधर्मवान् इति वाक्यात्।