Sbg 9.21 scval

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Vallabhacharya ।।9.20 -- 9.21।।त्रैविद्या इति। त्रिगुणात्मकत्रिवेदविद्यायां निष्णाताः? तथा च त्रिगुणकर्मकारिणः तथाविधैरेव यज्ञैस्तत्तद्देवताविशेषं समाराध्य वस्तुतस्तत्राहमेवेति मामित्युक्तम्। स्वर्गतिं प्रार्थयन्ते।।स्वर्गतिमित्युपलक्षणं कर्मानुगुणलोकानाम्। तथाहि निबन्धे -- सात्त्विकः सात्त्विकं कर्म यथा श्रुतिपरः कृती। स्वर्गलोकस्तस्य सिद्धयेद्विमानैस्त्रीभिरावृतः।।पुण्यस्य तु तिरोधाने पतत्यर्वाक्शिरास्ततः। पुण्यशेषं समादाय समीचीनेषु जायते। राजसं कर्म कुर्वाणो मेर्वादिसुखभाग्भवेत्। तामसं कर्म कुर्वाणोऽधोलोके सुखभाग्भवेत्।।राजसं सात्विकं कुर्वन् दैत्यसर्गेषु जायते। राजसं कर्म कुर्वाणश्चन्द्रलोके सुखी भवेत्। वृष्टिद्वाराऽन्नरूपः सन् रेतोयोनिषु जायते।,तामसं कर्म कुर्वाणो यक्षलोके सुखी भवेत्। तामसः सात्विकं कुर्वन् पितृलोके महीयते। राजसं कर्म कुर्वाणो भूतादिसुखमाप्नुयात्।।तामसं कर्म कुर्वाणः सर्पादिसुखभाग्भवेत्। सर्वेषां पुनरावृत्तिस्तथा कर्म पुनर्भवः इति। तदाह -- क्षीणे पुण्ये इति। न तु क्षीणे लोके तद्यथेह कर्मजितो [चितो] लोकः क्षीयत एवमेव अमुत्र पुण्यजितो [चितो] लोकः क्षीयते [छां.उ.8।1।6] इति श्रुतिस्तूपचारमात्रम्। एवं त्रयीधर्मपराः कामकामा गतागतमवाप्नुवन्ति जन्ममरणपर्यावर्त्तमनुभवन्तो गुणप्रवाहमार्गे पतिता भवन्तीत्यर्थः। अयं जायस्य म्रियस्वेति तृतीयो दुष्टोऽधर्म -- (गुण) प्रवाहमार्ग उक्तः? तत्र अधर्मप्रवाहमार्गे जीवा नाङ्गीकृताः केनापि स्वरूपेण किन्तु माययेति सिद्धान्तः।