Sbg 9.21 scram
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Ramanuja ।।9.21।। ते तं विशालं स्वर्गलोकं भुक्त्वा तदनुभवहेतुभूते पुण्ये क्षीणे पुनरपि मर्त्यलोकं विशन्ति। एवं त्रय्यन्तसिद्धज्ञानविधुराः काम्यस्वर्गादिकामाः केवलं त्रयीधर्मम् अनुप्रपन्नाः गतागतं लभन्ते। अल्पास्थिरस्वर्गादीन् अनुभूय पुनः पुनः निवर्तन्ते इत्यर्थः।महात्मानः तु निरतिशयप्रियरूपं मच्चिन्तनं कृत्वा माम् अनवधिकातिशयानन्दं प्राप्य न पुनरावर्तन्ते इति तेषां विशेषं दर्शयति --