Sbg 9.21 scjaya
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Jayatritha ।।9.20 -- 9.21।।सदसच्चाहमर्जुन [9।16] इति विज्ञानस्योपसंहृतत्वादुत्तरस्यासङ्गतिमाशङ्क्याह -- तथापी ति।अहं क्रतुः [9।16] इत्यादिना सर्वक्रत्वादिभोक्तृत्वं यदुक्तं भगवतस्तदसदिति वक्ष्यामीति गूढाभिसन्धिना यदि सर्वत्र भोक्ता भगवान्? तर्हि किं भागवतानां त्रैविद्यानां च फलसाम्यमेव इति पृष्टस्येदमुत्तरमित्याशयः। तथापि सर्वत्र भगवतो भोक्तृत्वेऽपि मद्भजनं भागवतैरनुष्ठितम्? देवतेति पित्राद्युपलक्षणम् त्रैविद्याद्यनुष्ठिताद्वरमुत्कृष्टफलम्। इत्यादिना श्लोकत्रयेण।