Sbg 9.20 scdhan
Sanskrit Commentary By Sri Dhanpati ।।9.20।।एवं ते सततं कीर्तयन्तः यतन्तश्च दृढव्रताः। नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते। ज्ञानयज्ञेन एकत्वेन पृथकत्वेन बहुधा चोपासते इति पूर्वोक्तैर्वृत्तिप्रकारैः मां पूजयन्तस्ते साक्षात्परंपरया च मामेव प्राप्नुवन्तीर्थादुक्तम् इदानीमाज्ञानां भगवद्भक्तिवर्जितानां केवलकर्मजडानां स्वर्गप्राप्त्यापि संसारानिवृत्तिरित्याह -- त्रैविधा इत्यादिना। ऋग्यजुःसामवेदप्रतिपादितकर्ममात्रज्ञाः याज्ञिकाः सोमं पिबन्तीति सोमपास्तेनैव सोमपानेन पूतानि सर्वगप्रतिबन्धकानि येषां ते शुद्धकिल्बिषाः धूतपापा इतियावत्। यज्ञैरग्निष्टोमादिभिर्मामिन्द्रवस्वादिरुपिणमजानन्तोऽपि वस्तुवृत्त्या तद्रूपिणं मामिष्ट्वा पजयित्वा ये स्वर्गतिं स्वर्गगमनं गम्यत इति गतिः फल स्वरेव गतिरिति वा तां प्रार्थयन्ते च पुण्यं पुण्यफलं सुरेन्द्रस्य देवराजस्य पुरंदरस्य लोकं स्वर्गलोकं आसाद्य संप्राप्य दिवि स्वर्गे दिव्यान् दिविभवान् देवभोगान् देवैर्भोक्तुं योग्यान् भोगानश्रन्ति भुञ्जते।