Sbg 9.20 scanand

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Anandgiri ।।9.20।।भगवद्भक्तानामपि निष्कामाना(णा)मेव मुक्तिरिति दर्शयितुं सकामानां पुंसां संसारमवतारयति -- ये पुनरिति। तिस्रो विद्या अधीयते विदन्तीति वा? त्रैविद्या वेदविदस्तदाह -- ऋगिति। वस्वादीत्यादिशब्देन सवनद्वयेशानादित्यारुद्राश्च गृह्यन्ते। शुद्धकिल्बिषाः निरस्तपापा इति यावत्।