Sbg 9.19 scram

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Ramanuja ।।9.19।।अग्न्यादित्यादिरूपेण अहम् एव तपामि? ग्रीष्मादौ अहम् एव वर्षं निगृह्णामि तथा वर्षासु अपि च अहम् एव उत्सृजामि। अमृतं च एव मृत्युः च येन जीवति लोको येन च म्रियते? तद् उभयम् अपि अहम् एव। किम अत्र बहुना उक्तेन सद् असत् च अपि अहम् एव। सद् यद् वर्तते? असद् यद् अतीतम् अनागतं च? सर्वावस्थावस्थितचिदचिद्वस्तुशरीरतया तत्तत्प्रकारः अहम् एव अवस्थित इत्यर्थः।एवं बहुधा पृथक्त्वेन विभक्तनामरूपावस्थितकृत्स्नजगच्छरीरतया तत्प्रकारः अहम् एव अवस्थित इति एकत्वज्ञानेन अनुसंदधानाः च माम् उपासते ते एव महात्मानः।एवं महात्मनां ज्ञानिनां भगवदनुभवैकभोगानां वृत्तम् उक्त्वा तेषाम् एव विशेषं दर्शयितुम् अज्ञानां कामकामानां वृत्तम् आह --