Sbg 9.19 scneel
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Neelkanth ।।9.19।।अहं तपामि आदित्यो भूत्वा। अहं वर्षं वृष्टिस्तां निगृह्णामि अष्टसु मासेषु कैश्चिद्रश्मिभिः। उत्सृजामि च चतुर्षुमासेषु कैश्चिदिति। अमृतं जीवनं मृत्युर्मरणम्। अमृतं देवान्नं वा। सत् साधु? असत् असाधु। एतत्सर्वमहमेव। अतस्तेषां विश्वतोमुखं मम भजनं कुर्वतां सर्वरूपेणाहमनुग्रहं करोमीति भावः।