Sbg 9.18 scram
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Ramanuja ।।9.18।।गम्यत इति गतिः? तत्र तत्र प्राप्यस्थानम् इत्यर्थः। भर्ता धारयिता? प्रभुः शासिता? साक्षी साक्षाद् द्रष्टा? निवासः वासस्थानं च वेश्मादि? शरणम् इष्टस्य प्रापकतया अनिष्टस्य निवारणतया समाश्रयणीयः चेतनः शरणम्? स च अहम् एव सुहृत् हितैषी? प्रभवप्रलयस्थानं यस्य कस्य यत्र कुत्रचित् प्रभवप्रलययोः यत् स्थानं तद् अहम् एव। निधानं निधीयत इति निधानम् उत्पाद्यम् उपसंहार्यं च अहम् एव इत्यर्थः। अव्ययं बीजं तत्र तत्र व्ययरहितं यत् कारणं तद् अहम् एव।