Sbg 9.16 scvv
Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha
।।9.16।।यद्यपि परव्यूहादिरूपेणैकत्वपृथक्त्वे वक्तुं शक्ये? तथापि अनन्तरग्रन्थानुसारादुक्त एवार्थ इत्यभिप्रायेणअहं क्रतुः इत्यादिश्लोकचतुष्टयस्य प्रकृतसङ्गतमर्थं चाहतथाहीति।ज्योतिष्टोमादिक इत्यनेनमहायज्ञ इत्यनेन च विषयविशेषप्रदर्शनात् क्रतुयज्ञशब्दयोः पौनरुक्त्यपरिहारः। शारीरमानसश्रौतस्मार्तादिविभागस्तु न प्रसिद्ध्यनुसारीति भावः। महायज्ञः ब्रह्मयज्ञादिः पञ्चविधः। अविशेषादेवकारः सर्वत्रान्वेतव्यः। क्रतुतदवयवादिप्रसङ्गात् स्वधाशब्दसहपाठादाज्यस्य च पृथगुक्तत्वादोषधिविकारहविर्विशेषविषयोऽयमौषधशब्द इत्याहऔषधं हविश्चाहमेवेति। एतेन स्वधौषधशब्दयोरन्नभेषजादिपरत्वव्याख्या प्रत्युक्ता।विशेषविधिः शेषनिषेधार्थः इति शङ्कां परिहरतिप्रदर्शनार्थमिति। एवमुत्तरेष्वपि पितामहादिकथनं प्रपितामहादिप्रदर्शनार्थं ग्राह्यम्। अत्राग्निशब्दस्य प्रकरणविशेषाद्भूततृतीयादिमात्रविषयत्वं न युज्यत इत्यभिप्रायेणाह -- अहमाहवनीयादिकोऽग्निरिति। हविषां प्रागुक्तत्वादत्र हुतशब्दो भावार्थ इत्याह -- होमश्चेति।