Sbg 9.16 scsh

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Shankaracharya ।।9.16।। --, अहं क्रतुः श्रौतकर्मभेदः अहमेव। अहं यज्ञः स्मार्तः। किञ्च स्वधा अन्नम् अहम्? पितृभ्यो यत् दीयते। अहम् औषधं सर्वप्राणिभिः यत् अद्यते तत् औषधशब्दशब्दितं व्रीहियवादिसाधारणम्। अथवा स्वधा इति सर्वप्राणिसाधारणम् अन्नम्? औषधम् इति व्याध्युपशमनार्थं भेषजम्। मन्त्रः अहम्? येन पितृभ्यो देवताभ्यश्च हविः दीयते। अहमेव आज्यं हविश्च। अहम् अग्निः? यस्मिन् हूयते हविः सः अग्निः अहम्। अहं हुतं हवनकर्म च।।किञ्च --,