Sbg 9.16 scram

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Ramanuja ।।9.16।। अहं क्रतुः अहं ज्योतिष्टोमादिकक्रतुः अहम् एव यज्ञः महायज्ञः अहम् एव स्वधा पितृगणपुष्टिदायिनी औषधं हविः च अहम् एव। अहम् एव च मन्त्रः अहम् एव आज्यम्। प्रदर्शनार्थम् इदम्? सोमादिकं च हविः अहम् एव इत्यर्थः। अहम् आहवनीयादिकः अग्निः होमश्च अहम् एव।