Sbg 9.16 scjaya
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Jayatritha ।।9.16।।विश्वतोमुखं इत्युक्तं सर्वात्मकत्वं प्रपञ्चयत्युत्तरेण इत्यन्यथा व्याख्याननिरासार्थमाह -- प्रतिज्ञातमि ति। अन्यथा प्रतिज्ञातानुक्तिप्रसङ्ग इति भावः। व्याख्यानं तुरसोऽहमप्सु [7।8] इत्यादेरिव द्रष्टव्यम्।क्रतवः इति क्रतुयज्ञशब्दयोरर्थभेदमाह। सामान्यविशेषभावेन भेद इत्यर्थः।