Sbg 9.16 scdhan

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Dhanpati ।।9.16।।ननु बहुभिः प्रकारैः यदि उपासते तर्हि कथं तेषां त्वदेकविषयमुपासनं सिध्यतीत्याशङ्क्य तत्तत्प्रकारभेदेन ध्यायन्तोऽपि मामेव ध्यायन्ति सर्वात्मकत्वान्ममेत्याशयेनाह -- अहमित्यादिना। अहं क्रतुः श्रौतः कर्मभेदोऽहमेवं। ननु क्रतुः संकल्पो देवताध्यानरुप इति भाष्यकृद्भिः कुतो न व्याख्यातमितिचेत्? यज्ञादिसमभिव्याहारादिति गृहाण। यज्ञः स्मार्तकर्मभेदो वैश्वदेवादिः सोऽप्यहमेव। पितृभ्योद्दीयतेऽन्नं तत्स्वधाशब्देन ग्राह्यम्। सर्वप्राणिभिर्यदद्यतेऽन्नं तदौषधम्। यद्वा स्वधाशब्देन साधारणमन्नं गृह्यते। औषधशब्देन व्याधिनिवर्तकमौषधम्। येन पितृभ्यो देवेभ्यश्च हविर्दीयते स मन्त्रः आज्यं हविः यस्मिन्हूयते सोऽग्निः हुतं हवनकर्मक्रियाकारकफलजातं मह्यतिरिक्तं नास्तीति समुदायार्थः।