Sbg 9.14 scpur

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Purushottamji


।।9.14।।ते च द्विविधाः? भक्ता ज्ञानिनश्च? तत्र प्रथमं भक्तानां भजन प्रकारमाह -- सततमिति। सततं निरन्तरं मां कीर्तयन्तः लीलास्वरूपज्ञानेन श्रीभागवतोक्तप्रकारेण गुणगानं कुर्वन्तः? सर्वत्र मदुत्कर्षं कथयन्तः। यतन्तश्च कीर्तने यत्नादिकं कुर्वाणाः? इन्द्रियनिग्रहं वा कुर्वन्तः। चकारेण श्रवणादिकं ज्ञाप्यते। पुनः कीदृशाः दृढव्रताः दृढं ऐहिकपारलौकिकयोर्मदेकनिष्ठं मोहशा त्रा৷৷৷৷৷৷৷৷৷৷৷৷ द्यपरिभूतं व्रतं निश्चयो येषां तादृशाः। किञ्च नमस्यन्तश्चकिमासनं ते गरुडासनाय इत्यादिना परमकाष्ठापन्नवस्तुरूपनमस्कारं कुर्वन्तः स्वदैन्याविर्भावपूर्वकं? चकारेण नृत्यादिकमपि कुर्वन्तः। पुनः कीदृशाः। नित्ययुक्ताः सावधानाः मदेकपरचित्ताः। भक्त्या स्नेहेन? न तु विहितत्वेन? मामुपासते सेवन्त इत्यर्थः।