Sbg 9.13 scjaya
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Jayatritha ।।9.13।।ननु कुतोऽयं विवेकः इत्याकाङ्क्षायां राक्षसादिभ्य इतरे न द्विषन्तीत्येतावदव वक्तव्यम्। भजन्तीत्यादि तु व्यर्थं इत्यत आह -- नेतर इति। सत्यमेतत् तथापि देवानां स्वरूपकथनार्थमेतत्। तच्च द्वेषाभावोपपादनार्थमिति भावः। देवा नित्युत्तमजीवोपलक्षणम्।