Sbg 9.12 scsri

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Sridhara Swami ।।9.12।।किंच -- मोघाशा इति। मत्तोऽन्यद्देवतान्तरं क्षिप्रं फलं दास्यतीत्येवंभूता मोघा निष्फलैवाशा येषां ते। अतएव मद्विमुखत्वान्मोघानि व्यर्थानि कर्माणि येषां ते। मोघमेव नानाकुतर्काश्रितं शास्त्रज्ञानं येषां ते। अतएव विचेतसो विक्षिप्तचित्ताः। सर्वत्र हेतुः। राक्षसीं तामसीं हिंसादिप्रचुराम् आसुरीं च राजसीं कामदर्पादिबहुलाम् मोहिनीं बुद्धिभ्रंशकरीं प्रकृतिं स्वभावं श्रिताः आश्रिताः सन्तो मामवजानन्तीति पूर्वेणान्वयः।