Sbg 9.12 scram

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Ramanuja ।।9.12।।मम मनुष्यत्वे परमकारुण्यादिपरत्वतिरोधानकरीं राक्षसीम् आसुरीं च मोहिनीं प्रकृतिम् आश्रिताः? मोघाशाः मोघवाञ्छिता निष्फलवाञ्छिताः? मोघकर्माणः मोघारम्भाः? मोघज्ञानाः सर्वेषु मदीयेषु चराचरेषु अर्थेषु मयि च विपरीतज्ञानतया निष्फलज्ञानाः विचेतसः तथा सर्वत्र विगतयाथात्म्यज्ञानाः? मां सर्वेश्वरम् इतरसमं मत्वा मयि यत् कर्तुम् इच्छन्ति? यद् उद्दिश्य आरम्भान् कुर्वते? तत् सर्वं मोघं भवति इत्यर्थः।