Sbg 9.12 scneel

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Neelkanth ।।9.12।।मदवज्ञानाच्च ते मोघाशाः वृथैव आशा आशिषो येषां ते मोघाशाः। तथा मोघकर्माणो निष्फलोद्योगाः। मोघज्ञानाः निष्फलज्ञानाः। यतो विचेतसो निर्विवेकाः। यतो राक्षसीमासुरीं च रजस्तमःप्रधानां मोहिनीं मोहकरीं प्रकृतिं श्रिताः। छिन्धि भिन्धि पिब खाद परस्वमपहरेत्येवंवादशीलाः क्रूरकर्माणो भवन्तीत्यर्थः।