Sbg 9.12 scmad

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Madhavacharya ।।9.12।।तेषां फलमाह -- मोघाशा इति। वृथाशाः? भगवद्वेषिभिराशासितं न किञ्चिदाप्यते। यज्ञादिकर्माणि च वृथैव तेषां? ज्ञानं च। केनापि ब्रह्मरुद्रादिभक्त्याद्युपायेन न कश्चित् पुरुषार्थ आमुष्मिकस्तैराप्यत इत्यर्थः। वक्ष्यति चतानहं द्विषतः क्रूरान् संसारेषु नराधमान् [16।16] इत्यादि। मोक्षधर्मे च [म.भा.12।346।6?7]कर्मणा मनसा वाचा यो द्विष्याद्विष्णुमव्ययम्। मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः। यो द्विष्याद्विबुधश्रेष्ठं देवं नारायणं हरिम्। कथं स न भवेद्वेष्य आलोकान्तस्य (आत्मा लोकस्य) कस्यचित् इति। सर्वोत्कृष्टे ज्ञानभक्ती हि यस्य नारायणे पुष्करविष्टराद्ये। सर्वावमे द्वेषयुतश्च तस्मिन्भ्रूणानन्तघ्नोऽस्य समो न चैव इति सामवेदे शाण्डिल्यशाखायाम्।द्वेषाच्चैद्यादयो नृपाः [भाग.7।1।30]वैरणं यं नृपतयः शिशुपालपौण्ड्रशाल्वादयो गतिविलासविलोकनाद्यैः। ध्यायन्त आकृतधियः शयनासनादौ तत्साम्यमीयुरनुरक्तधियः पुनः किम् [11।5।48] इति भागवते। भक्तिप्रियत्वज्ञापनार्थं नित्यध्यानस्तुत्यर्थं च? स्वभक्तस्य कदाचिच्छापबलात् द्वेषिणोऽपि भक्तिफलमेव भगवान्ददातीति।भक्ता एव हि ते पूर्वं शिशुपालादयः शापबलात् द्वेषिणः। तत्प्रश्नपूर्वं पार्षदत्वशापादिकथनाच्चैतज्ज्ञायते। अन्यथा किमिति तदप्रस्तुतमुच्यते। भगवतः साम्यकथनं तु द्वेषिणामपि द्वेषमनिरूप्य पूर्वतनभक्तिफलमेव ददातीति ज्ञापयितुम्।न मे भक्तः प्रणश्यति [9।31] इति वक्ष्यति। न चभावो हि भवकारणं इत्यादिविरोधः। द्वेषभाविनां द्वेष एव भवतीति हि युक्तम्। अन्यथा गुरुद्वेषिणामपि गुरुत्वं भवतीत्यनिष्टमापद्येत। न चाकृतधीत्वे विशेषः? तेषामेव हिरण्यकशिप्वादीनां पापप्रतीतेः।हिरण्यकशिपुश्चापि भगवन्निन्दया तमः। विविक्षुरत्यगात्सूनोः प्रह्लादस्यानुभावतः [भाग.4।21।47] इति।यदनिन्दत्पिता मह्यं (मे त्वां) इत्यारभ्यतस्मात्पिता मे पूयेत दुरन्ताद्दुस्तरादघात् [भाग.7।10।1517] इति प्रह्लादेन भगवतो वरयाचनाच्च। बहुषु ग्रन्थेषु च निषेधः। कुत्रचिदेव तदुक्तिरिति विशेषः। यस्मिंस्तदुच्यते तत्रैव निषेध उक्तः।महातात्पर्यविरोधश्चोक्तः पुरस्तात्। अयुक्तिमद्भ्यो युक्तिमन्त्येव बलवन्ति वाक्यानि। युक्तयश्चोक्ता अन्येषाम्। न चैषां काचिद्गतिः। साम्येऽपि वाक्ययोर्लोकानुकूलाननुकूलयोर्लोकानुकूलमेव बलवत्। लोकानुकूलं भक्तप्रियत्वं च नेतरत्। उक्तं च तेषां भक्तत्वम्।मन्ये सुरान्भागवतांस्त्र्यधीशे संरम्भमार्गाभिनिविष्टचित्तान् [भाग.3।1।24] इत्यादि। अतो न भगवद्वेषिणां काचिद्गतिरिति सिद्धम्। द्वेषकारणमाह -- राक्षसीमिति।