Sbg 9.12 scjaya

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Jayatritha ।।9.12।।किञ्च तेषां फलमित्यस्य परिहारो न दृश्यते अत आह -- तेषा मिति। अनर्थत्वप्रदर्शनाय व्याचष्टे -- वृथे ति। सम्पदादिप्राप्तिदर्शनात्कथमित्यत आह -- भगवदि ति। युद्धादिकर्मणां साफल्यदर्शनात्कथं मोघकर्माणः इत्यत आह -- यज्ञादी ति। ज्ञानं तत्त्वविषयं तेषां नास्त्येव? अतः कथं तस्य मोघत्वमुच्यते इत्यत आह -- ज्ञानं चे ति। ज्ञानं च तेषां वृथैवेत्यस्य केनापीत्यर्थ इति सम्बन्धः। अनेन ज्ञानपदमुपलक्षणमिति चोक्तं भवति। न केवलं पुरुषार्थानवाप्तिः? अपितु दुःखावाप्तिश्चेति भावेन तत्र प्रमाणान्याह -- वक्ष्यति चे ति। आ सम्यक् लोकान्तस्य चण्डालादेः। पुष्करविष्टराद्ये पद्मासनस्य पितरि। भ्रूणानन्तघ्नोऽनन्तभ्रूणघ्नः। यद्येवं? कथं तर्हि भागवतादौ भगवद्द्वेषस्य मोक्षसाधनत्ववचनम् इत्यत आह -- द्वेषादि ति। तद्गतिं गता इति सम्बन्धः। वैरेण ध्यायन्तः यदीयगत्यादिभिराकृतधियः आकृष्टबुद्धयः। ये पूर्वं भक्ताः शिशुपालादयस्तद्विषये भवत्वेषा गतिः? न तु पौण्ड्रशाल्वादिविषये? अत आह -- नित्ये ति। भक्तप्रियत्वज्ञापनार्थमित्युक्तं विवृणोति -- स्वभक्तस्ये ति। इति भक्तप्रियत्वज्ञापनार्थमिति योजना।स्यादेतत्? यदि तेषां स्वतो भक्तत्वं शापबलादेव द्वेषित्वमित्येतत्प्रमितं स्यात् तदेव कुतः इत्यत आह -- भक्ता एव ही ति। प्रसिद्धमेवैतत् भागवतादावित्यर्थः। कुतो वचनानामर्थान्तरकल्पनेति चेत्?यो द्विष्यात् इत्याद्युदाहृतवाक्याविरोधात्। हेत्वन्तरं चाह -- तत्प्रश्ने ति।अहो अत्यद्भुतं ह्येतद्दुर्लभैकान्तिनामपि। वासुदेवे भगवति गतिश्चैद्यस्य विद्विषः [भाग.7।1।15] इति युधिष्ठिरेण द्वेषिणः कथं मुक्तिर्जातेत्येवंरूपे तद्विषये प्रश्ने कृते सति नारदेनमातृष्वसेयो वश्चैद्यो दन्तवक्त्रश्च पाण्डव। पार्षदप्रवरौ विष्णोर्विप्रशापात्पदच्युतौ [भाग.7।1।32] इति तदुत्तरत्वेन पूर्वपार्षदत्वादिकं कथ्यते। ततोऽपि द्वेषो न मोक्षसाधनमित्येततज्ज्ञायते। कथमित्यत आह -- अन्यथे ति। यदि द्वेषो मोक्षसाधनं स्यात्तदा किमत्राद्भुतम् यतो द्वेषोऽप्येको मुक्तिमार्ग इत्युत्तरं वक्तव्यम्। पूर्वपार्षदत्वादिकं त्वप्रस्तुतमनुपयुक्तं न वक्तव्यं स्यादित्यर्थः। ननु नारदेननिन्दनस्तवसत्कारन्यक्वारार्थं [भाग.7।1।22] इत्यादिना भगवतो निन्दादौ साम्यमपि तदुत्तरत्वेन कथ्यते? यदि स्तुतेरिव निन्दाया तु मोक्षसाधनत्वं स्यात्तदा तदनुपयुक्तं न वक्तव्यमिति सत्प्रतिपक्षार्थापत्तिरित्यतोऽस्यान्यथोपपत्तिमाह -- भगवत इति। साम्यं निर्विकारत्वम्। भक्तानामपराधं भगवान्न गणयतीत्येतत्कुतः इत्यत आह -- ने ति। द्वेषस्य मुक्तिसाधनत्वाभावेभावो यथा कथञ्चिच्चिन्तनं? भवस्य मोक्षस्य कारणम् इत्यादिवचनविरोधः स्यादित्यत आह -- न चे ति। कुतो नेत्यत आह -- द्वेषे ति। हि यस्मादेतद्वचनमिति युक्तं घटनोपेतं तस्मादित्यर्थः। यथोक्तम्यादृशी भावना ज्ञेया सिद्धिर्भवति तादृशी [ ] इति। प्रतीत एवार्थः किं न स्यात् इत्यत आह -- अन्यथे ति। भगवद्द्वेषिणो मुक्तिभाजः तदाकृतधीत्वात्? भगवद्भक्तवत् इत्यनुमानविरोध इत्यत आह -- नचे ति। उभयोराकृतधीत्वे सति फलेऽप्यविशेष इति च नेत्यर्थः। कुतः इत्यतः कालातीतत्वादित्याह -- तेषामेवे ति। आकृतधीनामेव। विविक्षुर्वक्ष्यतीति सम्भावनाविषयः। आशङ्कायामचेतनेषूपसङ्ख्यानात्। मह्यं मम। ननु वचनत्वाविशेषात्यो द्विष्यात् इत्यादिभिःद्वेषाच्चेद्यादयः इत्यादीनां कथं बाधनं इत्यत आह -- बह्वि ति। निषेधो द्वेषस्य मुक्तिसाधनतायाः। न केवलं बहुत्वाबहुत्वरूपोऽनयोर्विशेषः। किन्तु स्वव्याहतत्वास्वव्याहतत्वरूपोऽपीत्याह -- यस्मिन्नि ति। भागवतादौ ग्रन्थेभगवन्निन्दया इत्यादिर्निषेधः।भगवद्गुणोत्कर्ष एव सर्ववेदानां यन्महातात्पर्यं तद्विरोधो द्वेषान्मुक्तिवाचिनाम्? इतरेषां तु तदानुकूल्यमिति च विशेष इति भावेनाह -- महातात्पर्ये ति। उक्तः उक्तप्रायः। इतोऽपि बाध्यबाधकभावो युक्त इति भावेन व्याप्तिं तावदाह -- अयुक्तिमद्भ्य इति। सप्तम्यर्थे मतुप्। ततः किमित्यत आह -- युक्तयश्चे ति। महातात्पर्यविरोधश्चेत्यपेक्षया। अन्येषामनुकूलाः।अव्ययं विबुधश्रेष्ठम्पुष्करविष्टराद्ये इति। सावकाशत्वनिरवकाशत्वविशेषाच्चैवमित्याह -- न चे ति। इतरेषां तूक्तैवेति शेषः। इतश्च बाध्यबाधकभावो युक्त इत्यभिप्रेत्य व्याप्तिं तावदाह -- साम्येऽपी ति। गुणान्तरेण साम्येऽपीति कैमुत्यार्थं लोकानुकूलशब्देन,लोकदृष्टव्याप्तिकानुमानानुकूलत्वमुच्यते। ततः किमित्यत आह -- लोके ति। इतरद्द्वेषिप्रियत्वं भगवत्प्रीत्यैव मोक्ष इति तु प्रसिद्धमेव। शिशुपालादीनां पूर्वभक्तत्वं प्रसिद्धमित्युक्तम्? तत्कथमिति चेत्? पार्षदत्वात्? वचनाच्चेत्याह -- उक्तं चे ति। त्रयाणां लोकानामधीशे। संरम्भेण मार्गमात्रेणाभिनिविष्टचित्तान्। उपसंहरति -- अत इति। गतिः सद्गतिः। स्वमौढ्यादेव मामवजानन्ति। न मद्दोषात्तेषां न महाननर्थ इति सर्वं समाहितम्। राक्षसीमित्यादि तु किमर्थं इत्यत आह -- द्वेषे ति। मौढ्यान्मिथ्याज्ञानं भवतु? प्रज्वलनात्मको द्वेषस्तु कुतः इत्याशङ्कानिवृत्त्यर्थमिति शेषः। अन्येषामविद्यमानं मौढ्यमेव तेषां कुतः इत्याशङ्कानिरासार्थमिति वा। अत्र कारणमिति मूलकारणम्।