Sbg 8.8 scjaya
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Jayatritha ।।8.8।।कुतोऽयमर्थः इत्यत उत्तरत्रैवमेव व्याख्यानादिति भावेनाह -- सदे ति। द्वन्द्वादिशङ्काव्युदासार्थमाह -- अभ्यास एवे ति। अभ्यासातिरिक्तस्य योगत्य प्रकृतोपयोगिनोऽभावादिति भावः।पुरुषश्चाधिदैवतम् [8।4] इति प्रकृतो हिरण्यगर्भोऽत्रोच्यत इति प्रतीतिनिरासार्थमाह दिव्यमि ति। दिव्यत्वेन विशेषणात् ईश्वर एवायमित्यथः।पृ़ पालनपूरणयोः [धा.पा.3।4] इत्यतःविदिपूरोश्च इति कुषन्प्रत्ययविधानात् पूर्णं चेति सिध्यति। सर्वासु पूर्षु वर्तमान इति स्वरूपानुवादेन पुरुष इति विधेयम्। तस्य व्याख्यानं पुरिशय इत्यादि। आवरणमन्तर्व्याप्तिः। संवरणं बहिराच्छादनम्। ननु दिवि भवो दिव्यः स च सूर्यमण्डलस्थत्वाद्धिरण्यगर्भोऽपि भवतीति कश्चित् (शं.) अत आह -- दिव्यमि ति। औणादिको यक्प्रत्ययः। परममिति विशेषणादिति भावः।