Sbg 8.6 scval

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Vallabhacharya ।।8.6।।न केवलं मां स्मरन्मद्भावं यातीति नियमः -- यं यमिति। अन्तेऽन्तकाले तमेव भावं स्मर्त्तुः स्वविषयजातीयाकारत्वसम्पादकं भावं स्वरूपमेति भरतवत्।