Sbg 8.6 scms

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Madhusudan Saraswati ।।8.6।।अन्तकाले भगवन्तमनुध्यायतो भगवत्प्राप्तिर्नियतेति वदितुमन्यदपि यत्कंचित्काले ध्यायतो देहं त्यजतस्तत्प्राप्तिरवश्यंभाविनीति दर्शयति -- न केवलं मां स्मरन्मद्भावं यातीति नियमः किं तर्हि यं यं वापि भावं देवताविशेषंचकारादन्यदपि यत्किंचिद्वा स्मरंश्चिन्तयन्नन्ते प्राणवियोगकाले कलेवरं त्यजति स तं तमेव स्मर्यमाणं भावमेव नान्यमेति प्राप्नोति। हे कौन्तेयेति पितृष्वसृपुत्रत्वेन स्नेहातिशयं सूचयति। तेन चावश्यानुग्राह्यत्वं तेन च प्रतारणाशङ्काशून्यत्वमिति। अन्तकाले स्मरणोद्यमासंभवेऽपि पूर्वाभ्यासजनिता वासनैव स्मृतिहेतुरित्याह -- सदेति। सदा सर्वदा तस्मिन्देवताविशेषादौ भावो भावना वासना तद्भावः स भावितः संपादितो येन स तथा। भाविततद्भाव इत्यर्थः। आहिताग्न्यादेराकृतिगणत्वाद्भावितपदस्य परनिपातः। तद्भावेन तच्चिन्तनेन भावितो वासितचित्त इति वा।