Sbg 8.3 scram
Sanskrit Commentary By Sri Ramanuja ।।8.3।।श्रीभगवानुवाच -- तद् ब्रह्म इति निर्दिष्टं परमम् अक्षरं न क्षरति इति अक्षरं क्षेत्रज्ञं समष्टिरूपम् तथा च श्रुतिःअव्यक्तमक्षरे लीयते अक्षरं तमसि लीयते (सुबालो0 2) इत्यादिका। परमम् अक्षरं प्रकृतिविनिर्मुक्तात्मस्वरूपम्। स्वभावः अध्यात्मम् उच्यते स्वभावः प्रकृतिः अनात्मभूतम् आत्मनि संबद्ध्यमानं भूतसूक्ष्मतद्वासनादिकं पञ्चाग्निविद्यायां ज्ञातव्यतया उदितम् तदुभयं प्राप्यतया त्याज्यतया च मुमुक्षुभिः ज्ञातव्यम्।
भूतभावो
मनुष्यादिभावः
तदुद्भवकरो
यो
विसर्गः
पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति (छा0 उ
0
5।3।3) इति श्रुतिसिद्धो योषित्संबन्धजः स
कर्मसंज्ञितः
तत् च अखिलं सानुबन्धम् उद्वेजनीयतया परिहरणीयतया च मुमुक्षुभिः ज्ञातव्यम्। परिहरणीयता च अनन्तरम् एव वक्ष्यतेयदिच्छन्तो ब्रह्मचर्यं चरन्ति (गीता 8।11) इति।