Sbg 8.3 scms

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Madhusudan Saraswati ।।8.3।।एवं सप्तानां प्रश्नानां क्रमेणोत्तरं त्रिभिः श्लोकैः श्रीभगवानुवाच -- प्रश्नक्रमेण हि निर्णये प्रष्टुरभीष्टसिद्धिरनायासेन स्यादित्यभिप्रायवान्भगवानत्र श्लोके प्रश्नत्रयं क्रमेण निर्धारितवान्। एवं द्वितीयश्लोकेऽपि प्रश्नत्रयं तृतीयश्लोके त्वेकमिति विभागः। निरुपाधिकमेव ब्रह्मात्र विवक्षितं ब्रह्मशब्देन नतु सोपाधिकमिति प्रथमप्रश्नस्योत्तरमाह -- अक्षरं न क्षरतीत्यविनाशि अश्नुते वा सर्वमिति सर्वव्यापकं [अक्षरत्वात्]एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनणु इत्याद्युपक्रम्यएतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतःनान्यदतोऽस्ति द्रष्टृ इत्यादिमध्ये परामृश्यएतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च इत्युपसंहृतं श्रुत्या। सर्वोपाधिशून्यं सर्वस्य प्रशासितृ अव्याकृताकाशान्तस्य कृत्स्नस्य प्रपञ्चस्य धारयितृ अस्मिंश्च शरीरेन्द्रियसंघाते विज्ञातृ निरुपाधिकं चैतन्यं तदिह ब्रह्मेति विवक्षितम्। एतदेव विवृणोति -- परममिति। परमं स्वप्रकाशपरमानन्दरूपं प्रशासनस्य कृत्स्नजडवर्गधारणस्य च लिङ्गस्य तत्रैवोपपत्तेःअक्षरमम्बरान्तधृतेः इति न्यायात्। न त्विहाक्षरशब्दस्य वर्णमात्ररूढत्वाच्छ्रुतिलिङ्गाधिकरणन्यायमूलकेनरूढिर्योगमपहरति इति न्यायेन रथकारशब्देन जातिविशेषवत्प्रणवाख्यमक्षरमेव ग्राह्यं तत्रोक्तलिङ्गसंभवात्ओमित्येकाक्षरं ब्रह्म इति च परेण विशेषणात्आनर्थक्यप्रतिहतानां विपरीतं बलाबलम् इति न्यायात्वर्षासु रथकार आदधीत इत्यत्र तु जातिविशेषे नास्त्यसंभव इति विशेषः। अनन्यथासिद्धेन तु लिङ्गेन श्रुतेर्बाधःआकाशस्तल्लिङ्गात् इत्यादौ विवृतः। एत्तावांस्त्विह विशेषः। अनन्यथासिद्धेन लिङ्गेन श्रुतेर्बाधे यत्र योगः संभवति तत्र स एव गृह्यते मुख्यत्वात् यथाआज्यैः स्तुवते पृष्ठैः स्तुवते इत्यादौ। यथा चात्रैवाक्षरशब्दे। यत्र तु योगोऽपि न संभवति तत्र गौणी वृत्तिर्यथाऽऽकाशप्राणादिशब्देषु। आकाशशब्दस्यापि ब्रह्मणि आसमन्तात्काशत इति योगः संभवतीति चेत्स एव गृह्यतामिति पञ्चपादीकृतः। तथाच पारमर्षं सूत्रंप्रसिद्धेश्च इति। कृतमत्र विस्तरेण। तदेवं किं तद्ब्रह्मेति निर्णीतम्। अधुना किमध्यात्ममिति निर्णीयते -- यदक्षरं ब्रह्मेत्युक्तं तस्यैव स्वभावः स्वो भावः स्वरूपं प्रत्यक्चैतन्यं नतु स्वस्य भाव इति षष्ठीसमासः लक्षणाप्रसङ्गात्। षष्ठीतत्पुरुषबाधेन कर्मधारयपरिग्रहस्य श्रुतपदार्थान्वयेन निषादस्थपत्यधिकरपासिद्धत्वात्। तस्मान्न ब्रह्मणः संबन्धि किंतु ब्रह्मस्वरूपमेव। आत्मानं देहमधिकृत्य भोक्तृतया वर्तमानमध्यात्ममुच्यतेऽध्यात्मशब्देनाभिधीयते न करणग्राम इत्यर्थः। यागदानहोमात्मकं वैदिकं कर्मैवात्र कर्मशब्देन विवक्षितमिति तृतीयप्रश्नोत्तरमाह। भूतानां भवनधर्मकाणां सर्वेषां स्थावरजङ्गमानां भावमुत्पत्तिमुद्भवं वृद्धिं च करोति यो विसर्गस्त्यागस्तत्तच्छास्त्रविहितो यागदानहोमात्मकः स इह कर्मसंज्ञितः कर्मशब्देनोक्त इति यावत्। तत्र देवतोद्देशेन द्रव्यत्यागो याग उत्तिष्ठद्धोमो वषट्कारप्रयोगान्तः स एव उपविष्टहोमः स्वाहाकारप्रयोगान्त आसेचनपर्यन्तो होमः। परस्वत्वापत्तिपर्यन्तः स्वत्वत्यागो दानं सर्वत्र च त्यागांशोऽनुगतः तस्य च भूतभावोद्भवकरत्वम्अग्नौ प्रास्ताहुतिः,सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः इति स्मृतेः।ते वा एते आहुती हुते उत्क्रामतः इत्यादिश्रुतेश्च।