Sbg 8.3 scjaya
Sanskrit Commentary By Sri Jayatritha ।।8.3।।ननु पूर्वाध्याये[29]ते ब्रह्म इति निर्विशेषणमेवोपक्षिप्तम् अतएवात्रकिं तद्ब्रह्म इति तथैव पृष्टम्। उत्तरे तु कस्मात्अक्षरं परमं ब्रह्म इति सविशेषणमुपादीयते इत्यत आह -- परममि ति। अक्षरस्यैव परमत्वविशेषणम् न ब्रह्मण इत्यर्थः। तर्हिअक्षरं इत्येवालं किं विशेषणेन इत्यत आह -- वेदे ति। आदिपदेन प्रकृतिर्गृह्यते तयोरपि ब्रह्माक्षरशब्दवाच्यत्वात् प्रसक्तिः।स्वभावोऽध्यात्मं [8।3] इति शब्दद्वयस्यैकविषयत्वसिद्धयेऽध्यात्मशब्दं तावत् द्वेधा व्याचष्टे -- आत्मनी ति। आत्मानं जीवमधिकृत्य तदुपकारित्वेन वर्तमानं वस्त्वित्यर्थः। आत्माधिकार इति ग्रन्थविशेषस्य संज्ञा यत्प्रतिपाद्यं तदध्यात्ममिति वेत्यर्थः। अत्राध्यात्मशब्दं प्रथमान्तं गृहीत्वा प्रथमं व्याख्यानम्। सप्तम्यन्तमुपादाय द्वितीयं आत्मशब्दं देहविषयमादाय व्याख्याने परमेश्वरप्रसक्तेर्न तथा व्याख्यातम्।एवं तर्हि स्वभावः इत्युभयस्य कथमुत्तरं इत्यतस्तावत्तद्व्याख्यानं प्रतिजानीते -- तथा ही ति।,तत्राद्योत्तरत्वेनादौ व्याचष्टे -- जैव इति। जीवस्यायं जैवोऽन्तःकरणादिर्देहपर्यन्तः पदार्थः स्वभावः स्वस्य भाव इति व्युत्पत्त्या।ते ब्रह्म तद्विदुः [7।29] इति जीवानां प्रकृतत्वात् स्वशब्दो जीववाची तथा चात्मन्यधि यत् तदित्येवं व्याख्याताध्यात्मशब्दार्थप्रश्नस्येदमुत्तरं भवतीति भावः। इदानीं द्वितीयोत्तरत्वेन व्याख्याति -- स्वाख्य इति। पूर्ववदत्रापि स्वशब्दो जीववाची तथा चात्माधिकार इति व्याख्याताध्यात्मशब्दार्थप्रश्नस्येदमुत्तरं भवतीत्याशयः। ननु जैववाचित्वे भावशब्दः सार्थकः षष्ठ्याः साकाङ्क्षत्वात् जीववाचित्वे तु तस्य पदार्थत्वाव्यभिचारात्। स्वशब्देनैवालं किंभावशब्देन इत्यतो भावशब्दं तावदन्यथा व्याचष्टे -- सर्वदे ति। यद्यपि भवनकर्ता भावः तथापि विशेषानुपादाने मुख्यस्य ग्राह्यत्वात्सर्वदेत्यादि सिध्यति तथापि तस्य किं प्रयोजनम् इत्यत आह -- अन्तःकरणादी ति। स्वशब्दमात्रोपादाने तस्यात्मीयेऽपि प्रयोगादन्तःकरणादिकमपि प्रसज्येत तथा च द्वितीयस्येदमुत्तरं स्यात्। आत्मैव ह्यात्माधिकारे प्रतिपाद्यो वक्तव्यः नान्तःकरणादिकम् अतस्तद्व्यावृत्त्यर्थो भावशब्दः प्रयुक्तः। कथं तेन तद्व्यावृत्तिः इत्यत आह -- न ही ति। अन्नमयं हि सोम्य मनः [छां.उ.6।5।4] इत्यादेरिति भावः। तथा चान्तःकरणादौ व्यावृत्ते स्वशब्द आत्मार्थतया व्याख्यातो भवतीति हृदयम्।एवं तर्हि भाव इत्येवास्तु किं स्वशब्देन इत्यत आह -- स्वशब्द इति। ईश्वरोऽपि हि सर्वदैकप्रकारेणास्त्येव अतो भाव इत्येवोक्ते तत्प्रसक्तौ पूर्ववत् द्वितीयोत्तरत्वासम्भवे तद्व्यावृत्त्यर्थः स्वशब्दः। न हि ईश्वरो जीवानां स्वः भेदप्रमाणविरोधात्। अत एवेश्वरस्वभावो जीव इति व्याख्यानमपास्तम्। नन्वेवमपि स्वशब्दस्यात्मीयार्थत्वादीश्वरप्रसक्तिः मैवम्द्विष्ठो यद्यपि सम्बन्धः षष्ठ्युत्पत्तिः प्रधानतः इति वचनात्तस्यात्मीत्यात्वाभावात् षष्ठ्यन्तात्खल्वयं छः। सकलकार्योत्पत्तिनिमित्तभूतो देवतोद्देशेन च पुरोडाशादिद्रव्यपरित्यागस्तज्जन्यमपूर्वमिति यावदिति व्याख्यानमसत्। तस्याध्यात्मपदेनैव गृहीतत्वादिति भावेन भूतभावेत्यादिकं व्याख्याति -- भूतानामि ति। उद्भवकरी च सेश्वरक्रिया चेति विग्रहः। ईश्वरक्रियाग्रहणं कर्मशब्देनैकार्थ्यप्रतिपत्त्यर्थम्। एवंलक्षणो यो विसर्गः स कर्मसंज्ञितः न तु कुलालादिसम्बन्धीत्यर्थः। ननु,विसर्गशब्दस्त्यागार्थस्तत्कथमेवं व्याख्यानं इत्यत आह -- विशेषेणे ति।