Sbg 8.3 scdhan
Sanskrit Commentary By Sri Dhanpati ।।8.3।।क्रमेण कृतानां प्रश्नानां तथैव प्रतिवचने प्रश्नकर्तुरिष्टं सुखेन प्रश्नोत्तरदानं सिध्यतीत्याशयवानर्जुनकृतप्रश्नानां क्रमेण निर्णयाय श्रीभगवानुवाच। तत्रते ब्रह्म तद्विदुः कृत्स्त्रमि त्यत्र निर्गुणं ब्रह्म विविक्षितमिति प्रथमप्रश्नस्योत्तरमाह -- अक्षरं ब्रह्मेति। यदुक्तं किं तदब्रह्मेति तदक्षरं न क्षरतीत्यक्षरं विनाशरहितं अश्रुते व्याप्नोति सर्वमिति व्युत्पत्त्या वाक्षरं सर्वत्र व्यापकम्। रुढ्याक्षरशब्देनोंकारप्रतिपत्तिभ्रमं वारयति -- परममिति। परत्वं निरतिशयं परमात्मन एव पृथिव्याद्याकाशान्तस्य विकारजातस्य धारणात्। तथाच सूत्रंअक्षरमम्बरान्तधृतेः इतिकस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति सहोवाचैतद्वैतदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनणु इत्यादि श्रुयते। तत्र संशयः किमक्षरशब्देनि वर्ण उच्यते किंवा परमेश्वर इति। तत्राक्षरसमाम्राय इत्यादावक्षरशब्दस्य वर्णे प्रसिद्धत्वात् प्रसिद्य्धतिक्रमस्य चायुक्तत्वादोंकार एवेदं सर्वमित्यादौ च श्रुत्यन्तरे वर्णस्याप्युपास्यत्वेन सर्वात्मत्वावधारणात् वर्ण एवाक्षरशब्दवाच्य इत्येवं प्राप्त उच्यते। परएव आत्माक्षरशब्दवाच्यः कस्मादम्बरान्तधृतेः पृथिव्यादेराकाशान्तस्य विकारजातस्य धारणात्। तत्र हि पृथिव्यादेः समस्तस्य विकारजातस्य कालत्रयप्रविभक्तस्याकाशएव तदोतं च प्रोतं चेत्याकाशप्रतिष्ठत्वमुकत्वा कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेत्यनेन प्रश्नेनेदमक्षरमवतीरितं। तथाचोपसंहृतमेतस्मिन्खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चेति। नचेयमम्बरान्तधृतिर्ब्रह्मणोऽन्यत्र संभवति। यदप्योंकार एवेदं सर्वमिति तदपि ब्रह्मप्रतिपत्तिसाधनत्वात्स्तुत्यर्थं द्रष्टव्यम्। तस्मान्न क्षरत्यश्रुते वेति नित्यत्वव्यापित्वाभ्यामक्षरं परमेव ब्रह्मेति परममिति विशेषणादक्षरशब्देन जीवप्रधानप्रतिभ्रमोऽपि चारितः।।तृतीयप्रश्नस्योत्तरमाह -- भूतभावोद्भवकरः भूतानां भावो भूतभावः तस्योद्भवो भूतभावोद्भवस्तं करोतीति भूतभावोद्भवकरो भूतवस्तूत्पत्तिकर इति। भाष्ये भूतान्येव भावास्तेषामुद्भवः समुत्पत्तिस्तां करोतीति व्युत्पत्तिं सिद्धवत्कृत्य विधान्तरेण व्युत्पादयति -- भूतानामिति। भावः सद्भावो वस्तुभाव इति तट्टीकाकाराः। एवंच भूतानां भवनधर्मकाणां भाव उत्पत्तिः उद्भवो वृद्धिश्च तयोः करः भूतभावोद्भवकर इत्यादिष्युत्पत्तिसिद्धवत्करोऽपि बोध्यः। विसर्जन विसर्गः देवतोद्देशेन चरुपुरोडाशादेर्द्रव्यस्य परित्यागः सएव विसर्गलक्षणो यज्ञादिरुपो वेदविहितः कर्म संज्ञितः कर्मशब्देन मयोक्त इत्यर्थः।अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः।। इत स्मृतिभूतानां चराचराणामुद्भवमेतस्मात्कर्मणो दर्शयति।